________________
प्रकरणम् १६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६७
असक्थः, असक्थिः । एवं दुःसुभ्याम् । शक्त्योः इति पाठान्तरम् । अशक्तः, अशक्तिः । ८६२ नित्यमसिच्प्रजामेधयोः । ( ५-४ -१२२ ) नम्दुः सुम्ब इत्येव । श्रप्रजाः । दुष्प्रजाः । सुप्रजाः । श्रमेधाः । दुर्मेधाः । सुमेधाः । ८६३ धर्मादनिकेवलात् । ( ५-४- १२४ ) केवलात्पूर्वपदात्परो यो समासान्तत्वाभावादत्र न कप् । असक्थः, असक्थिरिति । अविद्यमानं सक्थि यस्येति विग्रहः । एवं दुस्सुभ्यामिति । दुर्हलः, दुर्हलिः । दुस्सक्थः, दुस्सक्थिः । शक्त्योरिति । 'हलिशक्त्योः' इति केचित् पाणिनीयाः पठन्तीत्यर्थः । केचि च्छिष्याः पाणिनिना तथा पाठिता इति वदन्तीति भावः । नित्यमसिच् । नङदुसुभ्य इत्येवेति । पूर्वसूत्रादनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच् समासान्तः स्यात् स तद्धित इत्यर्थः । असिचः चकार इत्, इकार उच्चारणार्थः । अन्यतरस्यामित्यनुवृत्तिनिवृत्त्यर्थं नित्यग्रहणम् । स्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम् । प्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः । ' नञोऽस्त्यर्थानाम् -' इति समासः । असिचि 'यस्येति च' इत्याकारलोपादप्रजश्शब्दात् सुबुत्पत्तिः । सौ तु 'त्वसन्तस्य -' इति दीर्घः । ' हल्ङयाप्-' इति सुलोपः । यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदम् । तथापि सिच्यभत्वेन आकारलोपाभावादप्रजास्ाब्दात् सुबुत्पत्तौ प्रथमैकवचने प्रजाः इति रूपसिद्धावपि
,
प्रजसाविति न स्यात् । किंतु प्रजासावित्यादि स्यात् । तस्मादकारोच्चारणं भत्वसंपादनार्थमावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति विग्रहः । 'प्रादिभ्यो धातुजस्य-' इति समासः । असिजादि पूर्ववत् । 'इदुदुपधस्य -' इति षत्वम् । सुप्रजा इति । शोभना प्रजा यस्येति विग्रहः । असिजादि पूर्ववत् । श्रमेधा इत्यादि । अविद्यमाना मेधा यस्येति विग्रहः । श्रसिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विधानार्थम् । तेनाल्पमेधस इत्यादि सिध्यतीत्यप्याहुः । धर्मादनिच्केवलात् ।
स्वरः स्यादिति शङ्कथम्, 'नञ्सुभ्याम्' इस्यनेनान्तोदात्तत्वविधानात् । अत्राहुः - शैषिकस्य कपो निरृत्त्यर्थम्, 'दुर्हलै:' इत्यत्रान्तोदात्तत्वार्थं च तदिति । शक्त्योरिति । आचार्येण केचिच्छात्रा हलिशक्त्योरिति पाठिता इति भावः । नित्यमसिच् । श्रकारोच्चारणं भत्वसंपादनार्थम् तेन सुप्रजसावित्यादौ 'यस्येति च' इत्याकारलोपः सिध्यति । श्रस्वरितत्वादेव अन्यतरस्यांग्रहणाननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम् । तेन 'अल्पमेधसः' इति सिध्यतीति वृत्तिकारादयः । धर्मादनिच् । अनिचोऽकारश्चिन्त्यप्रयोजन इत्येके । अन्ये तु धर्मं करोत्याचष्टे वा 'तत्करोति-' इति ण्यन्तात् क्विपि धर्म, परमो धर्म यस्य स परमधर्मा । एकदेशविकृतस्यानन्यत्वाद्धर्म
,