________________
१६६ ]
सिद्धान्तकौमुदी। [बहुव्रीहिसमास'विनसा हतबान्धवा' इति भट्टिः । विगतया नासिकयोपलक्षितेति ब्याख्येयम् । ८६० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः। (५-४-१२०) एते बहुव्रीहयोऽप्रत्ययान्ता निपात्यन्ते शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवा अस्य सुदिव । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्यैणीपदः । अजपदः । प्रोष्टो गौः, तस्येव पादावस्य प्रोष्ठपदः । ८१ नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् । (५-४-१२१) अच्स्यात् अहलः, अहलिः । प्रत्यपवादत्वादित्याक्षिपति-कथं तौति । समाधत्ते-विगतयेति । विगता नासिका विनासिका, प्रादिसमासः, अबहुव्रीहित्वाद् न प्रादेशः, किंतु टायां 'पद्दन्-' इति नसादेशे विनसेति तृतीयान्तं रूपम् । उपलक्षितेत्यध्याहार्यमिति भावः । सुप्रात। सुप्रात इति। अच्प्रत्ययः । 'अव्ययानां भमात्रे टिलोपः'। सुश्व इति । अच, पूर्ववडिलोपः । सुदिव इति । शोभनं दिवा यन्येति विग्रहः । दिवेत्याकारान्तमव्ययम् । 'अव्ययानां भमात्रे टिलोपः' इति टिलोः । शारिकुक्षइति । शारिः पक्षिविशेषः । अचि 'यस्येति च' इति इकारलोप: । चतस्रोऽश्रय इति । कोणा इत्यर्थः। अचि 'यस्येति च' इति इकारलोपः। एण्या एवेति । एणी मृगी। अजपद इति । अजः छागः, तस्येव पादावस्यति विग्रहः । एणीपदादिषु अच् । निपातनात् पादः पत् । नन्दुस्सुभ्यः। शेषपूरगन सूत्रं व्याचष्टेअच् स्यादिति । अहलः, अहलिरिति । अविद्यमानो हतिः यस्येति विग्रहः । हलिशब्द इदन्तो हलपर्यायः, तदन्तादचि 'यस्येति च' इति इकारलोपे तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धम् । तथापे अनुक्तसमासान्ततया शैषिकस्य कपः प्राप्तौ तन्निवृत्त्यर्थमिदं वचनम् । अस्य वैकल्पिकत्वेऽपि अनुक्तप्रगता नासिका अस्येति विग्रहः । कथं तीति । प्रख्ययोरन्यतरेगग भाव्यमिति प्रश्नः । मासिकयेति । तथा च विनसेति न प्रथमान्तम् , किं तु 'पद्दन्न-' इति नसादेशे तृतीयान्तमिति भाका । शोभनं प्रातरस्येति । अधिकरणशक्तिप्रधानस्य सामानाधिकरण्यासंभवात्प्रातःशब्देन प्रातस्तनं कम लक्ष्यत इत्याहुः । प्रातःकल्पमित्यत्रेव प्रातःशन्दो वृत्तिविषये शक्तिमत्पर इति न सामानाधिकरण्यानुपपत्तिरित्यन्ये । एणीपदादिषु निपातनात्पद्भावः। नन्दुःसुभ्यो नन्वत्र हलिग्रहणं व्यर्थम् , हलशब्दमादायाहल इति प्रयोगसंभवात् । न च महद्धल हलिः, तद्रहितोऽहलिस्तत्रैवार्थे हल इति प्रयोगार्थ तग्रहणमिति वाच्यम् , अहल इत्यत्र महद्धलरहित इत्यर्थाप्रतीतेः । न चैषमप्यन्तोदात्तार्थमन्प्रत्ययविधानमावश्यकम् , अन्यथाऽहल इत्यत्र पूर्वपदप्रकृति