________________
प्रकरणम् १६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६५
1
खरणसः । ८५८ उपसर्गाच्च । ( ५-४-११६ ) प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । श्रसंज्ञार्थमिदं वचनम् । उनता नासिका यस्य स उमसः । ८५६ उपसर्गादनोत्परः । ( ८-४-२८ ) इति सूत्रम् । तद्भङ्क्त्वा भाष्यकार श्राह - उपसर्गाद्वहुलम् । उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः | 'वेर्मो वक्तव्यः' ( वा ३३६५ ) । विगता नासिका यस्य विप्रः । 'ख्यश्च' ( वा ३३६६ ) । विख्यः । कथं तर्हि विग्रहः । नसादेशः । 'पूर्वपदात्संज्ञायाम् -' इति णत्वम् । 'अत्वसन्तस्य -' इति दीर्घः । खरणा इति । खररूपा नासिका यस्येति विग्रहः । पक्षे खुरनासिक इति खरनासिक इति च न भवतीत्याह - पक्षे जपीष्यत इति । अच्प्रत्ययसहितो नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते । उपसर्गाच्च । नन्वञ्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह- संज्ञार्थमिति । उपसर्गादनोत्पर इति सूत्रमिति । तत्र हि 'नश्च धातुस्थो -' इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते 'रषाभ्यां नो णः' इत्यनुवर्तते । उपसर्गस्थाद्रेफषकारात्परस्य नसो नस्य णः स्यात्, श्रोत्रस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ताविदं सूत्रम् । 'प्रण
यूँषि तारिषत् ' इत्याद्युदाहरणम् । श्रनोत्परः किम् ? ' प्र नो मुञ्चतम् अत्र ओत्परकत्वान्न णत्वमिति स्थितिः । तद्भङ्क्त्वेति । 'अनोत्परः' इत्यपनीय तत्स्थाने बहुलमिति च कृत्वा भाष्यकार आहेत्यर्थः । तथा च फलितं सूत्रमाह — उपसर्गाद्बहुलम् । निमित्तादिति । रेफषकारान्मकादित्यर्थः । ' उपसर्गादनोत्परः' इति यथाश्रुते तु 'प्रणो नय' इत्यादावव्याप्तिः, 'प्र नः पूषा' इत्यादावतिव्याप्तिश्चेति भावः । प्रणस इति । प्रगता नासिका यस्येति विग्रहः । ' उपसर्गाच्च' इत्यच्, नासिकाया नस् ।' उपसर्गाद्बहुलम् ' इति णत्वमिति भावः । वेरिति । वेः परो यो नासिका - शब्दः स प्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः । प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशं टापि च विनसेति भट्टिप्रयोगो न युज्यते । प्रादेशस्यास्य नसादेशं उपसर्गाच्च । उपसर्गग्रहणं प्रादीनामुपलक्षणम्, नासिकाशब्दस्याक्रियार्थत्वेन तं प्रत्युपसर्गत्वायोगात् । न च क्रियायोगाभावेऽप्युपसर्गत्वमस्त्विति शङ्कयम् । सावके अधिसावकमित्यव्ययीभावे ‘उपसर्गात्सुनोति-' इति सस्य षत्वप्रसङ्गात्तदाह - प्रादेरिति । उपसर्गादनोत्परः । अनोत्परः किम् प्रनो मुञ्चतमित्यत्र णत्वं मा भूत् । तद्भङ्क्त्वेति । ‘अनोत्परः' इत्यपनीय बहुलग्रहणं च कृत्वेत्यर्थः । श्रन्यथा प्र नयेत्यादावव्याप्तिः, प्र नः पूत्रेत्यादौ त्यतिव्याप्तिः प्रसज्येतेति भावः । प्रणस इति ।
,