________________
१६४ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासलोनोऽप्स्याबहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः । ८५६ अनासिकायाः संशायां नसं चास्थूलात् । (५-४-११८) नासिकान्ताबहुव्रीहेरच्स्यामासिकाशब्दश्च नसं प्रामोति न तु स्थूलपूर्वात् । ८५७ पूर्वपदात्संशायामगः । (८-४-३) पूर्वपदस्थानिमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । दुरिव नासिका यस्य द्रुणसः । खरणसः । भगः किम्-ऋचामयनम् ऋगयनम् । 'अणगयनादिभ्यः, (स् १४५२) इति निपातनाएणस्वाभावमाश्रित्य प्रग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम्-स्थूलनासिकः । 'खुरखराभ्यां वा नस्' ( वा ३३६३)। खुरणाः । खरणाः। 'पक्षेऽजपीप्यते' । खुरणसः । इति । पुष्यो नेता यासामिति विग्रहः । अन्तर्बहियां च लोम्नः । अन्तर्लोम इति । अन्तः लोमानि यस्येति विग्रहः, अप् ,टिलोपः । एवं बहिर्लोमः । अनासिकायाः। अच् इति च्छेदः । नासिकाया इत्यस्य बहुव्रीहे विशेषणत्वात् तदन्तविधिमभिप्रेत्याह-नासिकान्तादिति । नसमित्यनन्तरं प्राप्नोतीत्यध्याहार्यम् । उपस्थितत्वान्नासिकाशब्द इति लभ्यते । तदाह–नासिकाशब्दश्च नसं प्राप्नोतीति । पूर्वपदात् । रषाभ्याम् इत्यनुवृत्तम् । पूर्वपदशब्देन पूर्वपदस्थं लक्ष्यते । 'रषाभ्याम् ' इत्यनेन लब्धो रेफः षश्च प्रत्येकमन्वेति । तदाह-पूर्वपदस्थानिमित्तादिति । रेफषकारात्मकादित्यर्थः । अग इति पञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः। गकारात्परस्य नेति यावत् । तदाह-न तु गकारव्यवधान इति । अनेन 'अट्कुप्वानुम्व्यवायेऽपि ' इत्यनुवृत्तिः सूचिता । अन्यथा अग इत्यस्य वैयर्थ्य स्यात् । खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष इवेत्यर्थः । द्रणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः। णत्वम् । ऋगयनमिति। 'ऋवर्णात्-' इति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेण व्यवधानान्न भवतीति भावः । अत्र ऋचामयनमिति विग्रहप्रदर्शनं चिन्त्यम् , वाक्येन संज्ञानवगमात् । न च रघुनाथ इत्यादौ संज्ञायां णत्वं शङ्कयम् , णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एव 'भृञोऽसंज्ञायाम् ' इति सूत्रभाष्ये 'य एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति । किं तर्हि प्रत्ययान्तेन चेत्संज्ञा गम्यते' इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिका. शब्दस्य बहुव्रीही संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः। प्रकृतत्वादेव सिद्धे नसादेशवचनम् अच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खुराविव नासिके यस्येति नक्षत्रे वर्तते न तु नेतृशब्द इति । खुरखराभ्यामिति । 'नासिकायाः-' इति वर्तते। केवलादेशवचनं प्रत्ययनिवृत्यर्थम् । खुरणा इति । 'अत्यसन्तस्य-' इति दीर्घः ।