________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१५ पत्नः । ११२४ वचः। (४-१-१२१) यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थ इत्यत्र तु 'तस्पेदम्' (सू १५००) इत्यण् । ११२५ इतश्चानिञः । (४-१-१२२) इकारान्ताद् ब्यचोऽपत्ये ढक्स्यात् , न स्विजन्ताद् । दौलेयः । नैधेयः । आत्रेयः । ११२६ शुभ्रादिभ्यश्च । (४-१-१२३) ढक्स्यात् । शुभ्रस्यापत्यं शौभ्रेयः । ११२७ विकर्णकुषीतकात्काश्यपे । (४-१-१२४) अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्यो वैकर्णिः । कौषीतकिः । ११२८ भ्रवो वुक्च । (४-१-१२५) चाड्ढक् । भ्रौवेयः । ११२६ प्रवाहणस्य ढे। (७-३-२८) प्रवाहणशब्दस्योत्तरपदस्याप्रागेवोक्तम् । व्यचः । ननु 'स्त्रीभ्यो ढक्' इत्येव सिद्धे किमथमिदमित्यत आहतन्नामिकेति । दात्तेय इति । दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः । ननु पृथाया अपत्यं पार्थ इति कथम् , तन्नामिकाणं बाधित्वा 'यचः' इति ढकप्रसङ्गादित्यत आह--पार्थ इत्यत्रेति । शिवादित्वादपत्य एवाणित्यन्ये । इतश्चानिजः । अस्त्रीप्रत्ययान्तार्थमिदम् । दुलिः निधिश्च कश्चित् । प्रात्रेय इति । अत्रिः प्रसिद्धः। परत्वादयमृष्यणमपि बाधत इति भावः। शुभ्रादिभ्यश्च । ढक् स्यादिति । शेषपूरणम् । इआद्यपवादः । शुभ्रस्यापत्यमिति । अस्त्रीत्वा. दप्राप्तौ ढगिति भावः । विकर्णकुषीतकात्काश्यपे । अपत्ये ढगिति । शेष. पूरणम् । काश्यप एवेति नियमार्थ शुभ्रादिभ्यः पृथक् पाठः। भ्रवो वुक् च। चाड्ढगिति । भ्रशब्दादपत्ये ढक् स्यात् प्रकृतेर्तुगागमश्च । बुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । भ्रौवेय इति । भ्रर्नाम काचित् , तस्या अपत्यमिति विग्रहः । ढकि एयादेशे प्रकृतेर्बुकि श्रादिवृद्धिः। वुगभावे तु ऊकारस्य वृद्धौ नाय ढग्ग्रहणमित्याहुः । तस्येदमिति । शिवादित्वादपत्य एवाणित्यन्ये । इतश्च । इतः किम् , दाक्षिः । अनिञः किम् , दाक्षायणिः । यचः किम् , उदधेरपत्यमौदधः । कासिकायां तु 'मरीचौरीचः' इत्युदाहृतम् । तदसत् । बाह्वादित्वेनेञ्प्रवृत्तेः। न चास्य बाह्वादित्वमविवक्षितम् , 'मरीचिशब्दो बाह्वादिषु पठ्यते' इति मिदचोऽन्त्यात्परः इति सूत्रे भाष्ये स्थितत्वात् । आत्रेय इति । परस्वादयमृष्यणं बाधत इति भावः । शुभ्रादिभ्यश्च । चकारस्त्वाकृतिगणत्वद्योतनार्थ इत्याहुः । मृकण्डशब्दोऽत्र पठ्यते । मार्कण्डेयः । शुभ्र, मृकण्ड, अश्व, विमातु, विधवा, गोधा, प्रवाहणेत्यादि । प्राकृतिगणोऽयम् । तेन पाण्डवेय इत्यादि सिद्धम् । इहादन्तेषु इञ् प्राप्तः, विधवाशब्दात्तुदालक्षणो ढक्, चतुष्पाजातिवाचिषु ढञ्, गोधाशब्दाद् द्वचनात्सोऽपि बति, क्वचिदौत्सर्गिकोऽण् प्राप्त इति बोध्यम् ।