________________
३१४ ]
सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार• छागलिरन्यः । केचित्तु 'शुङ्गा' इत्यावन्तं पठन्ति, तेषां ढक्प्रत्युदाहरणम् , शौङ्गेयः । ११२१ पीलाया वा । (४-१-११८) तनामिकाणं बाधित्वा 'यचः' (सू ११२४) इति ढकि प्राप्ते पक्षेऽण् विधीयते । पीलाया अपत्यं पैलः, पैलेयः। ११२२ ढक्च मण्डूकात् । (४-१-११६) चादण् । पचे इञ् । माण्डूकेयः, माण्डूकः, माण्डूकिः । ११२३ स्त्रीभ्यो ढक । (४-१-१२०) स्त्रीप्रत्ययान्तेभ्यो ढक्स्यात् । वैनतेयः । बाह्नादित्वात्सौमित्रिः । शिवादित्वात्सात्वाद् विकर्णादीन्प्रत्यपत्यत्वासंभव इति निरस्तम्। विकर्णादिभ्यो वास्यादिष्वेव ऋष्यण इति नियमार्थ सूत्रम्। पीलाया वा। अपत्येऽणिति शेषः। पीला नाम काचिन्मानुषी। तन्नामिकाणमिति । वाग्रहणाभावे तु अनेनाणा नित्यमेव ढको बाधः स्यात् । नच महाविभाषया अणः पाक्षिकत्वात्तदभावे ढग् भवत्येवेति वाच्यम् , महाविभाषया अपवादे निषिद्धे उत्सर्गो न प्रवर्तत इति ज्ञापनात् । अन्यथा शेवः शैविरित्यादिः स्यात् । ढक् च मण्डूकात् । मण्डूको नाम ऋषिः । पक्ष इअिति । पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः । स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादय स्त्रीप्रत्ययाश्चातु. र्थिका गृह्यन्ते, न त्वन्येऽपि स्त्रीवाचकाः, व्याख्यानादित्याह-स्त्रीप्रत्ययान्तेभ्य इति । विनता नाम गरुडमाता, तस्या अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् ? दरत् कश्चित्क्षत्तियः, तस्यापत्यं स्त्री दरत् । 'यमगध-' इत्यण् । 'अतश्च' इति तस्य लुक् । तस्या अपत्यं दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्त. त्वाभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः, सपन्या अपत्यं सापत्न इति कथम् , ढक्प्रसङ्गादित्यत आह-बाबादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति 'अत्रिभृगुकुत्स-' इति सूत्राभ्यामपत्यप्रत्ययस्य लुक् । न चात्र वत्सादीनामेव द्वन्द्वोsस्त्विति शङ्कयम् । मूलभूतानां तेषां विकर्णादीन् प्रत्यपत्यत्वाभावादतो व्याचष्टे-- वात्स्य इत्यादि । 'युगपदधिकरणवचनताया बहुत्वमस्ति' इति 'शरद्वच्छनक-' सूत्र एवोक्तम् । पक्षे इअिति । पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः । स्त्रीभ्यो ढक् । बहुवचननिर्देशान्न स्वरूपस्य ग्रहणम् , नाप्यर्थस्य । ढगर्थतया शुभ्रादिषु विमातृशब्दपाठात् । किं तु स्त्र्यधिकारोक्तटाबादेर्ग्रहणम् । न तु विप्रकृष्टक्तिन्नादेरित्याशयेनाह--- स्त्रीप्रत्ययान्तेभ्य इति । तेन 'दरदोऽपत्यं दारदः' इत्यत्र ढक् न भवति । स्त्यर्थग्रहणे तु स्यादेवात्र ढक् । दरच्छन्दो हि जनपदक्षत्रियवाचीति ततोऽपत्यार्थे 'यज्मगध-' इत्यणि तस्य स्त्रियाम् 'अतश्च' इति लुकि दरच्छब्दस्य स्व्यर्थवाचित्वात्। 'ढक् च-' इति वर्तमाने पुनरिह ढग्ग्रहणमएसम्बद्धस्य ढको निवृत्त्यर्थम् । यद्यपि 'चानुकृष्टं नोत्तरत्र' इति परिभाषया अणिह न प्रवर्तते तथापि तस्या अनित्यत्वज्ञाप