SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१३ निर्देशोऽर्थापेक्षः, तेन धान्यमातुन । संख्या इति किम्-सौमात्रः । शुभ्रादित्वाद् द्वैमात्रेयः। १११६ कन्यायाः कनीन च । (४-९११६) ढकोऽपवादोऽण् , तस्सनियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः । विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु । (४-१-११७) अपत्येऽण् । वैकर्णो वात्स्यः, वैकर्णिरन्यः । शौको भारद्वाजः, शौझिरन्यः। छागल पात्रेयः, संमातुरपत्यं सांमातुरः । अण् , उत् , रपरत्वम् । भाद्रमातुर इति । भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननु 'तस्यापत्यम्' इत्येव सिद्धे अरिवधिर्व्यर्थ एवेत्यत आह-आदेशार्थ वचनमिति। उदादेशस्य असंनियोगेन विध्यर्थमित्यर्थः। ननु धान्यं यो मिमीते तस्यापि मातुर्ग्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह-स्त्रीलिङ्गनिर्देशोऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोप्य संख्यासंभद्रपूर्वाया इति निर्दिश्यते। अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तवाचिनः पुंल्लिङ्गत्वादिति भावः । सौमात्र इति । सुमातुरपत्यमित्यर्थे 'तस्यापत्यम्' इत्यण् । संख्यासंभद्रपूर्वत्वाभावाद् नायमण, उत्त्वमपि तत्संनियोगशिष्टत्वानेति भावः । ननु द्वैमात्रेय इति कथम्, संख्यापूर्वकतया अण उत्त्वस्य च दुरित्वादित्यत आह-शुभ्रादित्वादिति । 'शुभ्रादिभ्यश्च' इति ढकि रूपमित्यर्थः । कन्यायाः कनीन च । कनीनेति लुप्तप्रथमाकम् । ढक इति । 'स्त्रीभ्यो ढक्' इति विहित. स्येत्यर्थः । कनीनादेशश्चेति । प्रकृतेरिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम् । ननु कन्याया अप्रादुर्भूतयौवनत्वात् पुंसंयोगाभावात् कथमपत्यसंबन्ध इत्यत आह--अनूढाया इति । अलब्धविवाहाया इत्यर्थः । एतच्च भाष्ये स्पष्टम् । विकर्ण । वत्सादिशब्दैस्तद्वंश्या विवक्षिताः। विकर्ण, शुङ्ग, छगल एभ्योऽण स्यात् , वत्सवंश्ये भरद्वाजवंश्ये अत्रिवंश्ये चापत्ये इत्यर्थः । एतेन वत्सादीनां मूलपुरुषइति भावः । द्वैमातुर इति । तद्धितार्थ' इत्यादिना समासः । अत्र 'द्वयोर्मात्रीरपत्यम्' इति विग्रहः, न तु द्विमात्रोरपत्यम्' इति । 'दिक्संख्ये संज्ञायाम्' इति नियमेनासंज्ञायां समासासंभवात् । धान्यमातुनेति । 'अभिव्यक्तपदार्थाः-' इत्यनेन जननीवाचिन एव ग्रहणे सिद्धेऽपि तस्य स्पष्टप्रतिपत्त्यर्थः स्त्रीलिङ्गनिर्देश इति भावः । 'अभिव्यक्त-' इत्यस्यानित्यताया ज्ञापनार्थ इति त्वन्ये । कन्यायाः। ननु कन्या ह्यक्षतयोनिः, तस्याश्चापत्यसम्भव एव नास्तीत्याशङ्कयाह-अनूढाया इति । अविवाहिताया इत्यर्थः । विकर्ण । वात्स्यादीनामपत्यप्रत्ययान्तानां द्वन्द 'यमोश्च' १ 'वैमात्रेयः' इति बहुत्र पाठः।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy