________________
३१२ ]
सिद्धान्तकौमुदी ।
[तद्धितेष्वपत्याधिकार
ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । श्रन्धकेभ्यः —– वाफल्कः । वृष्णिभ्यः - वासुदेवः, श्रनिरुद्धः । 'शौरिः' इति तु बाह्वादित्वात् । कुरुभ्यःनाकुलः, साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक्, आत्रेयः । १११८ मातुरुत्संख्यासंभद्र पूर्वायाः । (४-१-११५) संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । साम्मातुरः । भाद्रुमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गे सिद्धः । स्त्रीलिङ्ग
-
>
षीनामेति भावः । ऋष्यन्धक । प्रलीना वेदास्तपोबलवशाद् यन् अर्षन्ति प्राप्नुवन्ति ते ऋषयः। तथा च तैत्तिरीये श्रुतम् -' प्रजान्ह वै पृश्वींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानषत् त ऋषयोऽभवन्, तदृषीणामृषित्वम्' इति । श्रजा नित्याः, पृश्नयः शुक्लाः शुद्धा इति यावत् । तान् तपस्यमानान् — तपश्चरत, स्वयम्भु - अनादि, ब्रह्म-वेदः, अभ्यानर्षत् । 'ऋष गतौ' श्रभिमुख्येन प्राप्नोत् । ते वेदस्य अर्षणाद् ऋषिशब्दवाच्या अभवन्निति वेदभाष्यम् ।
'सर्गादिसमये वेदान्त्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ॥'
इति पुराणेषु प्रसिद्धम् । कात्यायन प्रणीत सर्वानुक्रमणिकाख्यग्रन्थे स्पष्टमेतत्, तदाह - ऋषयो मन्त्रद्रष्टार इति । अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः । ऋषिविशेषवाचिभ्यः अन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । इञोऽपवादः । ऋषिभ्य उदाहरति - वासिष्ठः । वैश्वामित्र इति । अन्धकेभ्य इति । अन्धकवंश्यवाचिभ्य उदाहियत इत्यर्थः । श्वाफल्क इति । श्वफल्कस्यापत्यमिति विग्रहः । वृष्णिभ्य इति । वृष्णिवंश्यवाचिभ्य उदाह्रियत इत्यर्थः । वासुदेव इति । वसुदेवस्यापत्यमिति विग्रह: । श्रनिरुद्ध इति । अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चिद् वृष्णिवंश्यः । तस्यापत्यं शौरिः कथम् ? प्रसङ्गादित्यत श्राह - शौरिरिति त्विति । बाह्रादित्वादित्यनन्तरम् इञा समाधेयमिति शेषः । कुरुभ्य इति । कुरुवंश्यवाचिभ्य उदाह्रियत इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । ननु अत्रेरपत्यमित्यर्थे 'इतश्चानिञः’ इति ढकि आत्रेय इति कथम् ? ऋष्यणा इन इव ढकोऽपि बाधौचित्यादित्यत श्राह - इञ एवेति । न तु ढक इत्यर्थः । मातुरुत्संख्यासंमद्रपूर्वायाः । द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । ' तद्धितार्थ -' इति समासः । अण्, ऋकारस्योकारः, रपरत्वम् । एवं षाण्मातुर । सांमातुर इति । समीचीना माता समाता, व्यावष्टे - अवृद्धेभ्य इत्यादिना । आत्रेय इति । परत्वादयमृष्यणं बाधत