________________
प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३११ गोत्रे इति निवृत्तम् । शिवस्यापत्यं शवः । गाङ्गः । पक्षे तिकादित्वास्फिन् । गाङ्गायनिः । शुभ्रादित्वाड्ढक्, गाङ्गेयः । १११६ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः । (४-१-११३) अवृद्धभ्यो नदीमानुषीनामभ्योऽरस्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धाभ्यः किम्-वासवदत्तेयः । नदीत्यादि किम्-वैनतेयः। तचामिकाभ्यः किम्-शोभनाया अपत्यं शौभनेयः । १११७ ऋष्यन्धकवृष्णिकुरुभ्यश्च । (४-१-१५४) भर्गात् फञ् । शिवादिभ्योऽण् । निवृत्तमिति । वृत्तिकैयटयोस्तथोक्तत्वादिति भावः । 'यूनि लुक्' इति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते । तत्तु मतान्तरमित्येके । तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम् । प्रवृद्धाभ्यो नदी। नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तु अवृद्धेभ्यो नदीमानुषीनामभ्य इत्येव सूत्रयितुमुचितमिति व्याचष्टे-अवृद्धेभ्य इत्यादि । ननु 'तस्यापत्यम्' इत्येव सिद्धे किमर्थमिदमित्यत आह--ढकोऽपवाद इति । चिन्तिता नाम काचिन्मानुषी। वासवदत्तेय इति । वासवदत्ता नाम काचिन्मनुष्यस्त्री, तस्या अपत्यमिति विग्रहः । वृद्धसंज्ञकत्वादणभावे दगिति भावः । वैनतेय इति । विनताया अपत्यमिति विग्रहः । विनता नाम गरुडमाता, सा न मानुषी, नापि नदीति भावः । शौभनेय इति । शोभनाशब्दोऽयं न नदीमानुशब्दोऽत्र गणे पठ्यते, ततः प्राप्तमिजं बाधित्वा परत्वात् 'सेनान्तलक्षण-' इति ण्ये प्राप्ते इह पाठसामर्थ्याद्यथाप्राप्तप्रत्यय इञव स्यान्न त्वम् । तथा चात्राणग्रहणमावश्यक मित्येके । अणधिकारादगोव स्यान्नान्य इत्यण्ग्रहणं स्पष्टप्रतिपत्त्यर्थमित्यन्ये । शिव, ककुत्स्थ, वतण्ड, जरत्कारु, विपाट , तक्षन्, विश्रवण, रवण, ऋष्टिषेण, विरूपाक्षेत्यादि । गोत्र इति निवृत्तमिति । एतच्च वृत्तौ कैयटे च स्पष्टम् । यद्यपि 'गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकारः' इति 'यूनि लुक्' इति सूत्रस्थभाष्यकैयटाभ्यां लभ्यते, तथापि तन्मतान्तरमिति भावः। एवं चेतःप्रभृत्यपत्यसामान्ये प्रत्यया भवन्तीति स्थितम् । शुभ्रादित्वान्नित्यढकि प्राप्त जरत्कारुशब्दोऽत्राणथं पठ्यते । जरत्कारवः । ढकि तु 'ढे लोपोऽकवाः' इत्युलोपः । जरत्कारेयः । कुादित्वाद् 'गोत्रे कुञ्जादिभ्यः-' इति नित्यं चफनि प्राप्ते विपादशब्दोऽत्राणथं पठ्यते । वैपाशः वैपाशायन्यः । 'सेनान्तलक्षण-' इति एयप्रत्यये 'उदीचाम्-' इतीनि च प्राप्ते तक्षशब्दोऽत्राणर्थ पठ्यते, ण्यप्रत्ययेन समावेशोऽत्रेष्यते, न त्विज्ञा। तादणः, तादण्यः । विश्रवणारवणशब्दावत्र पठ्येते, तौ च विश्रवःशब्दस्यादेशौ । विश्रवसोऽपत्यं वैश्रवणः, रावणः । अवृद्धाभ्यो- अवृद्धेभ्यो नदीमानुषीनामभ्यः' इत्येव सूत्रयितुं युक्तमित्याशयेन