SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारशार्जरवादित्वान्डीन् । वतण्डी। अनाङ्गिरसे तु वातण्ड्यायनी। लोहितादित्वात्स्फः। अणि तु वातण्डी । ऋषिवाद्वषयमाणः व्यङ् न । १११३ अश्वादिभ्यः फञ् । (४-१-११०) गोत्रे । अाश्वायनः । 'पुंसि जाते' (ग सू ६६) पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम्जाताया अपत्यं जातेयः। १२१४ भर्गावैगर्ते । (४-१-१११) गोत्रे फञ् । भार्गायणस्वैगर्तः, भागिरन्यः । १११५ शिवादिभ्योऽण् । (४-१-११२) वतण्डाच्चेति विहितस्येति । यन इति शेषः । वतण्डीति । वतण्डस्य गोत्रापत्यं स्त्री आङ्गिरसीति विप्रहः । यो लुकि आदिवृद्धिनिवृत्तौ ङीनिति भावः । वातण्ड्यायनीति । यजि आदिवृद्धौ लोहितादिलक्षणः फः, षित्वाद् डीषिति भावः । 'वतण्डाच्च' इति विहितस्येत्यस्य प्रयोजनमाह-अणि तु वातण्डीति। शिवादित्वादणि गोत्रत्वेन जातित्वाज्जातिलक्षणे डोषि तस्याणो बतण्डाद्विहितत्वेऽपि 'वतण्डाच्च' इति विहितत्वाभावान्न लुगिति भावः। ननु बतण्डादणि तस्य 'अणिोरनार्षयोः-' इति वक्ष्यमाणः ष्यङ् स्यादित्यत आह- ऋषित्वादिति। अश्वादिभ्यः। गोत्र इति । शेषपूरणमिदम् । आङ्गिरसे इति निवृत्तम् । आश्वायन इति । अश्वस्य गोत्रापत्यमिति विग्रहः । इअपवादः फञ्। पुंसि जात इति । गणसूत्रम् । प्रकृतिविशेषणमिति । पुंसि विद्यमानो यो जातशब्दः तस्माद्गोत्रे फप्रित्यर्थः। जातेय इति । 'स्त्रीभ्यो ढक्' । भर्गावैगर्ते। इदमपि गणसूत्रम् । त्रिगर्तो नाम भर्गस्य पुत्रः । तस्यापत्यं त्रैगर्तः । ऋष्यण । तस्मिन्गोत्रे अनाङ्गिरसे यजणोलुंगभावात् स्त्रियामिष्टं सिद्ध्यति, तथापि पुंस्याङ्गिरसे यअणोरुभयोः प्राप्तिरनिष्टेति तद्वारणाय पृथक् सूत्रं कृतम् । ऋषित्वादिति । चैवं 'ऋष्यन्धक-' इत्यणि सिद्धे शिवादिगणे वतण्डपाठो व्यर्थ इति शङ्कयम् । गर्गादिपाठेन या बाधात्तन्निवृत्तये तत्पाठस्यावश्यकत्वात् । ष्यङ् नेति । 'अग्गिओरनर्षयोः-' इति सूत्रणेति भावः । अश्वादिभ्यः । गोत्र इति । इह गणे बैल्य, आनडुह्य, आत्रेय, इति गोत्रप्रत्ययान्तास्त्रयः पठ्यन्ते, तेभ्यस्तु यून्येव । ‘एको गोत्रे' 'गोत्रायूनि-' इति वचनात् । तत्र विलिर्नाम राजर्षिस्ततो 'वृद्धत्कोसला-' इति व्यङ् । आनडुह्यशब्दो गर्गादियजन्तः । आत्रेयशब्दो ढगन्त इति ज्ञेयः । पुंसि जात इति । गणसूत्रमिदम् । जातशब्दे पुंसि विद्यमाने फञ् इत्यर्थः । कस्मादित्याकाङ्क्षायामर्याजातशब्दादिति लभ्यते । जाताया इति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा प्राप्तिः । शिवादिभ्योऽण् । ननु विशेषविहितानिनादीन् बाधित्वा अणेवारम्भासामर्थ्याद्भविष्यति किमनेनाणप्रहणेन । अत्राहुः-ऋष्टिषेण
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy