________________
प्रकरणम् २६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३०६
दौहित्राः । १९०६ मधुबभ्रुवोर्ब्राह्मणकौशिकयोः । ( ४- १ - १०६ ) गोत्रे यज् । माधव्यो ब्राह्मणः, माधवोऽन्यः । बाभ्रव्यः कौशिकर्षिः, बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धेऽपि नियमार्थमिदम् । गर्गादिपाठफलं तु लोहिता. दिकार्यम् । बाभ्रव्यायणी । १११० कपिबोधादाङ्गिरसे । ( ४- १ - १०७ ) गोत्रे यस्यात् । काप्यः । बौध्यः । श्राङ्गिरसे किम् - कापेयः । बौधिः । ११११ वतण्डाच्च । ( ४-१ - १०८) श्रङ्गिरस इत्येव । वातण्ड्यः । श्रनाङ्गिरसे तु भदौ शिवादौ च पाटाद्यञणौ । वातढ्यः, वातण्डः । १११२ लुक् स्त्रियाम् । ( ४ - १ - १०६ ) ' वतण्डाश्च' ( सू ११११ ) इति विहितस्य लुक्स्यात्स्त्रियाम् । मुपादाय तथैव व्याख्यात वादिति भावः । एवं च पौत्रा दौहित्रा इत्यादौ पौत्रदौहित्रयोः तथाविधगोत्रवाचित्वाभावान्न लुगिति स्थितम् । विस्तररस्तु शब्देन्दुशेखरे ज्ञेयः । मधुबभ्रुवोर्ब्राह्मणकौशिकयोः । शेषपूरणेन सूत्रं व्याचष्टे – गोत्रे यञिति । मधुशब्दाद्वेभ्रशब्दाच्च गोःआपत्ये यञ् स्याद् ब्राह्मणे कौशिके च यथासंख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिर्गर्गाद्यन्तर्गण इति भावः । बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियज बाभ्रव्य - शब्दात् 'सर्वत्र लोहितादिकतन्तेभ्यः' इति ष्फः । श्रयन्नादेशः, षित्त्वाद् ङीषिति भावः । कपिबोधादाङ्गिरसे । गोत्रे यञ् स्यादिति । शेषपूरणमिदम् । कपिशब्दाद्बोधशब्दाच अङ्गिरसात्मके गोत्रे गम्ये यञ् स्यादित्यर्थः । कापेय इति । अत्र गोत्रस्य अनाङ्गिरसत्वाद् यभावे 'इतश्चानिञः' इति ढक् । बौधिरिति । अत्राप्यनाङ्गिरसत्वाद् यञभावे ऋष्यणं बाधित्वा बाह्वादित्वादिनिति भावः । कपेर्गदौ पाठेऽपि आङ्गिरस एवेति नियमार्थं ग्रहणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी । बोधशब्दात्तु प्राप्ते विधिः । वतण्डाश्च । वतण्डस्य गर्गादौ शिवादौ च पाठाद् यजणोः प्राप्तयोराङ्गिरसे यमेवेति नियमार्थमिदम् । लुक् स्त्रियाम् । इति भावः । लोहितादीति । 'सर्वत्र लोहितादि-' इत्यादिना ष्फः । =फेणोक्♚S स्त्रीत्वे षित्वसामर्थ्याद् ङीषित्याशयेनाह - बाभ्रव्यायणीति । गर्गादिगण एव 'बभ्रुः कौशिक' इति पाठ्यम् । एवं हि द्विर्बग्रहणं न कर्तव्यं भवतीति हरदत्तादयः । काय इति । 'इतश्चानिञः' इति ढक् । कपेर्गर्गादिगणपाठो लोहितादिकार्यार्थः । तेन काप्यायनीति सिध्यति । बौधिरिति । अनृषित्वादिञ् बाह्वादित्वाद्वा । वण्डाच्च । यत्रणोः प्राप्तयोराङ्गिरसे यमेवेति नियमार्थं सूत्रम् । लुक् स्त्रियाम् । विहितस्येति । 'परिशेषितस्य वा' इति बोध्यम् । एतच्च 'आङ्गिरसे' इत्यनुवृत्त्या लभ्यते । यद्यपि ‘वतण्डाल्लुक् स्त्रियाम्' इत्येकसूत्रकरणेऽपि 'आङ्गिरसे' इत्यनुवृत्त्या
I