SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०८] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारगार्वः । वात्स्यः । ११०८ योश्च । (२-४-६४) गोत्रे यद्यमन्तममन्तं च तदवयवयोरेतयो क्स्यात्तस्कृते बहुत्वे, न तु स्त्रियाम् । गर्गाः । वस्साः । बिदाः । उर्वाः । तस्कृते इति किम्-प्रियगााः । स्त्रियां तु गार्यः स्त्रियः । गोत्रे किम्-द्वैप्याः, औस्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् , तेनेह न-पौत्राः, णिोरपवादः अञ् । गार्गादिभ्यो यज । गार्ग्यः। वात्स्य इति । गर्गस्य गोत्रापत्यमिति वत्सस्य गोत्रापत्यमिति च विग्रहः। रामो जामदग्न्यः, पाराशर्यो व्यास इत्यादौ तु अनन्तरापत्ये गोत्रत्वारोपाद्यनित्याहुः । यत्रोश्च । द्वितीयचतुर्थपादे इदं सूत्रम् । न त्विदं चातुर्थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजस्येतिवर्जमनुवर्तते । 'ण्यक्षत्रिय-' इत्यतो 'लुक्' इति 'यस्कादिभ्यो गोत्रे' इत्यतो गोत्र इति च । तदाहगोत्रे यदिति । एतयोरिति । योरित्यर्थः । प्रत्ययादर्शनस्यैव लुक्त्वादिति भावः । तत्कृत इति । यअञ्प्रत्ययार्थगतबहुत्वे इति यावत् । गर्गा इति । गर्गस्यापत्यानीत्यादिविग्रहः । प्रियगार्या इति । प्रियो गार्यो येषामिति विग्रहः । अत्र यअर्थगतबहुत्वाभावान्न लुगिति भावः । द्वैप्या इति । द्वीपे भवा इत्यर्थः । 'द्वीपादनुसमुद्रम्-' इति यञ् । औत्सा इति । उत्से भवा इत्यर्थः। 'उत्सादि. भ्योऽ' इहोभयत्रापि यत्रजोर्गोत्रवाचित्वाभावान्न लुगिति भावः। ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिबिदादिलक्षणानो लुक् स्यात् । नच तस्यानन्तरापत्यवाचित्वागोत्रवाचिस्वाभावान्न लुगिति वाच्यम् , 'यूनि लुक्' इति सूत्रभाष्ये अपत्याधिकारा दन्यत्र लौकिकमेव गोत्रं गृह्यते इति सिद्धान्तितत्वादित्यत आह--प्रवरेति । 'कश्यपोऽत्रिभरद्वाजो विश्वामित्रोऽथ गौतमः । जमदग्निबेसिष्ठश्च सप्तेते ऋषयः स्मृताः । 'तेषां यदपत्यं तद्गोत्रमित्याचक्षते' इति बोधायनीयादिप्रवराध्यायप्रसिद्धा भार्गवादय एवेह गोत्रत्वेन विवक्षिता इत्यर्थः । कैयटेन लौकिकस्य गोत्रस्य ग्रहणमिति भाष्यकथं तर्हि 'रामो जामदग्न्यः' इति । अनन्तरापत्ये त्ययम् । सत्यम् । अनन्तरेऽपि गोत्रत्वारोपाद्बोध्यः । यजओश्च । 'एयक्षत्रियार्ष-' इत्यतो लुगिति, 'तद्राजस्य-' इति सूत्राद्बहुषु तैनेवास्त्रियामिति चानुवर्तते, 'यस्कादिभ्यो गोत्रे' इत्यतो गोत्र इति च तदाह-गोत्रे यद्यअन्तमित्यादि । प्रवराध्यायप्रसिद्धगोत्रवाचिनौ केवलौ यो न भवत इति 'गोत्र' इत्यनेन तदन्तं विशेषितम् । तदवयवयोरिति । 'निर्दिश्यमानस्यादेशा भवन्ति' इति भावः । प्रवराध्यायेति । एतच्च 'स्त्रीपुंसा. भ्याम्-' इति सूत्रे 'लौकिकस्य गोत्रस्य ग्रहणम्' इति भाष्यमुपादाय कैयटेनोक्तमिति भावः । तेनेह नेति । यद्यलौकिकं गोत्रमपत्यमात्रं गृह्येत, तदास्यादेवातिप्रसङ्ग
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy