SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०७ नन्तरे तूपचारात् । ११०६ अनुष्यानन्तर्ये बिदादिभ्योऽञ् । (४-१-१०४) एभ्योऽञ् गोत्रे, ये स्वत्रानृषयः पुत्रादयस्तेभ्य अनन्तरे। सूत्रे स्वार्थे ष्य। बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्लादेराकृतिगणवादिन् । पुत्रस्यापत्यं पौत्रः। दौहित्रः । ११०७ गर्गादिभ्यो यञ् । (४-१-१०५) गोत्र इत्येव । नाम कश्चिदृषिः । नडादिफगन्तोऽयम् । द्रोणपर्वत । अनादिरिति । अश्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः, तदपेक्षया अन्य एवायं अनादिर्दोण इत्यर्थः । अश्वत्थाम्नीति । द्रोणाचार्यस्यानन्तरापत्ये अश्वत्थाग्नि द्रौणायन इति प्रयोग इत्यर्थः । तदिदं 'बाह्वादिभ्यश्च' इति सूत्रे भाष्ये स्पष्टम् । अनुष्यानन्तर्ये । अनृषि इति लुप्तपञ्चमीकम् । बिदादिभ्योऽञ् इति द्विरावर्तते । तथा च 'अनृष्यानन्तर्ये बिदादिभ्योऽञ्' इति कृत्स्नमेकं वाक्यम् । 'बिदादिभ्योऽञ् इति वाक्यान्तरम् । तत्र द्वितीयं वाक्यं व्याचष्टे-एभ्योऽञ् गोत्र इति । गोत्रे विवक्षिते बिदादिभ्यः अञ् स्यादित्यर्थः । अत्र प्रथमं वाक्यं कृत्स्नसूत्रं व्याचष्टे-ये विति । अनृषिभ्यो बिदादिभ्यः अनन्तरापत्ये अञ् स्यादित्यक्षरार्थः । बिदादौ हि ऋषयः अनृषयश्च पठिताः । तत्र ये अनृषयः तेभ्योऽनन्तरापत्ये अअिति फलितमिति भावः । ननु आनन्तर्ये इति श्रवणादनन्तर इति कथमित्यत आह-सूत्र खार्थे ष्यमिति । अनन्तरशब्दादिति शेषः । चतुर्वर्णादित्वादिति भावः । बिदस्य गोत्रापत्यं बैद इति । बिदस्य ऋषित्वात्ततो गोत्र एवानिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । ननु अनन्तरापत्ये अञभाव इअपवाद ऋष्यणेवोचित इति कथमनन्तरो बैदिरित्यत आहबाहादेरिति । बिदादिगणस्थादनृषेरनन्तरापत्ये अत्रमुदाहरति-पौत्रः।दौहित्र इति । पुत्रस्यानन्तरापत्यमिति दुहितुरनन्तरापत्यमिति च विग्रहः। यथायथमअनादिरिति । अश्वत्थाम्नः पिता यो महाभारते प्रसिद्धः, तदपेक्षयाऽन्य एवायं द्रोण इत्यर्थः । अश्वत्थाम्नीत्यादि । द्रोणाचार्यस्यानन्तरापत्ये अश्वत्थाम्नि द्रौणायन इति प्रयोगो भाक्त इत्यर्थः । अनृष्या। 'अनृषि' इति पञ्चम्याः सौत्रो लुक् । अनृषिभ्य इत्यर्थः । सूत्र इति । आनन्तर्य इत्यत्रेत्यर्थः । स्वार्थ इति । चातुर्वर्यादेराकृतिगणत्वादिति भावः। बैदिरित्यत्र ऋष्यणमाशङ्कयाह-बाहादेरिति । बिद, उर्व, कश्यप, कुशिक, भरद्वाज, उपमन्यु, विश्वानर, 'परस्त्री परशुं च' इत्यादि । गर्गादिभ्यो । गर्ग, वत्स, व्याघ्रपाद्, पुलस्ति, बभ्रु, मण्डु, वतण्ड, कपि, कत, शकल, कराव. अगस्ति, कुण्डिन, यज्ञवल्क, पराशर, जमदग्नि इत्यादि । १ 'अानन्तर्ये' इति क्वचित्पाठः । २ क्वचित् 'कुण्डिनी' इति पाठः । गणपाठे तु 'कण्डिनी' इति लभ्यते ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy