SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०६ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार११०२ हरितादिभ्योऽः । (४-१-१०० ) एभ्योऽअन्तेभ्यो यूनि फक् । हारितायनः । इह गोत्राधिकारेऽपि सामर्थ्याचून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । बिदाद्यन्तर्गणो हरितादिः । ११०३ यजिओश्च । (४-१-१०१) गोत्रे यौ यजिओ तदन्तात्फक्स्यात् । 'अनाति' इत्युक्तः ‘ापत्यस्य-' (सू १०८२) इति यलोपो न । गाग्र्यायणः । दाक्षायणः । ११०४ शरद्वच्छनकदर्भाद्भृगुवत्साग्रायणेषु । (४-१-१०२) गोत्रे फक्। अजिनोरपवादः। श्राद्यौ बिदादी। शारद्वतायनो भार्गवश्चेत्, शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् , शौनकोऽन्यः । दार्भायण श्राग्रायणश्चेत्, दार्भिरन्यः । ११०५ द्रोणपर्वतजीवन्तादन्यतरस्याम् । (४-१-१०३) एभ्यो गोत्रे फग्वा । द्रौणायनः, द्रौणिः । पार्वतायनः, पार्वतिः । जैवन्तायनः, जैवन्तिः । अनादिरिह होणः । अश्वत्थाम्न्यस्पष्टम् । यअिोश्च । गोत्रे इत्यधिकृतं यजिनोविशेषणम् , नतु विधेयस्य फकः, व्याख्यानात् । तदाह-गोत्रे यो यञिाविति । सामथ्र यून्ययम् । न हि गोत्रप्रत्ययाद् गोत्रप्रत्ययोऽस्ति, ‘एको गोत्रे' इति नियमात् । अनातीति । गर्गस्य गोत्रं गाग्यः । गर्गादित्वाद्यञ् । गाय॑स्यापत्यं युवेत्यर्थे यजन्तात् फकि प्रायन्नादेशे अनातीति पयुदासाद् 'आपत्यस्य च.' इति यलोपाभावे णत्वे गाायण इति रूपमित्यर्थः । दाक्षायण इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ् , दाक्षरपत्यं युवा दाक्षायणः, इञन्तात्फक् । गोत्रे किम् ? सुतङ्गमस्यादूरभव इत्यर्थे 'सुतङ्गमादिभ्य इञ्' इति इलि सौतङ्गमेरपत्ये न फक् । शरद्वच्छनक । शेषपूरणेन सूत्रं व्याचष्टे-गोत्रे फगिति । आद्यौ बिदादी इति । शरद्वच्छुनकशब्दौ बिदादी। अतस्तदुभयविषये अअपवाद इत्यर्थः । दर्भविषये त्विोऽ वाद इति स्पष्टमेव । दर्भः कश्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादि । आयायणश्चेति । अग्रो खरे च विशेषो बोध्य इत्याहुः । यजिजोश्च । अधिकारप्राप्ते गोत्रग्रहणं यमिओर्विशेषणं न तु विधेयस्य फकः, व्याख्यानात्तदेतदाह--गोत्रे याविति । गोत्रे किम् , 'द्वीपादनुसमुद्रं यज्' द्वीपे भवो द्वैप्यः । सुतंगमादि-यश्चातुरर्थिक इञ् । सौतंगमिः । तदपत्ये फक् मा भूत् । फक् स्यादिति । सामर्थ्यायून्ययम् । शरद्वच्छनक । भृगुः शरद्वतोऽपत्यं न भवति, पूर्वभावित्वात् । एवं शुनकस्यापत्यं न भवति वत्सः । अतोऽत्र भार्गवश्व वात्स्यश्चामायणश्चेति द्वन्द्वे 'अत्रिभृगु-' इति 'यजिओश्च' इति च यथासम्भवं लुग् बोध्यः । यद्यप्यत्र बहुत्वाभावाद् 'अत्रिभृगु-' इत्यादिना लुग् दुर्लभः, तथापि युगपदंधिकरणवचनतायां वर्ति दानां बर्थत्वात्सौत्रत्वाद्वा स्यादेव लुक् । अतो व्याचष्टे-भार्गवश्चेदिति । वात्स्यश्चेदिति च।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy