________________
३१६ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारचामादरचो वृद्धिः, पूर्वपदस्य तु वा ढे परे । प्रवाहणण्यापत्यं प्रावाहणेयः, प्रवाहणेयः । ११३० तत्प्रत्ययस्य च । (७-३-२६) प्रत्ययान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्थापत्यं प्रावाहणेयिः, प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः । ११३१ कल्याण्यादीनामिनङ् । (४-१-१२६ ) एषा. आवादेशे भ्रावय इति स्यात् । प्रवाहणस्य ढे। उत्तरपदस्येत्याधेकृतम् । 'तद्धितेष्वचामादेः' इत्यतः अचामादेरित्यनुवर्तते 'मृजेवृद्धिः' इत्यतो वृद्धिरिति 'अर्धात्परिमाणस्य पूर्वस्य तु वा' इत्यतः पूर्वस्य वेति च । तदाह-प्रवाहणशब्दस्यति । प्रावाहणेयः, प्रवाहणेय इति । शुभ्रादित्वाद् ढकि पूर्वपरस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलं तु प्रवाहणेयीभार्य इत्यत्र 'वृद्धिनिमित्तस्य च-' इति पुंवत्त्वप्रतिषेध एव । तत्प्रत्ययस्य च । पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते । तच्छब्देन ढप्रत्ययः परामृश्यते । तदाह-ढप्रत्ययान्तस्येति । प्रावाहणेयिः, प्रवाहणेयिरिति । शुभ्र दिढगन्तादि । ननु पूर्वसूत्रेणैव सिद्धत्वादिदं व्यर्थमित्यत आह--बाह्येति । ढक्त ययान्ताद् बहिर्भूतो य इञ् तन्निमित्ता 'तद्धितेष्वचामादेः' इति नित्या आदिवृद्धिः। ढाश्रयेणेति। ढप्रत्यये परे विहितेनेति यावत् । तथाविधेन वृद्धिविकल्पेन पूर्वस्त्रविहितेन बाधितुं न शक्यते, भिन्ननिमित्तकत्वादित्यर्थः। पूर्वसूत्रं हि केवलढप्रत्यया ते ढप्रत्ययं परनिमित्तत्वेनाश्रित्य प्रवृत्तम् , ढनिमित्तामादिवृद्धिं बाधत इति युक्ता , न त्विञ्प्रत्ययनिमित्तामपि नित्यामादिवृद्धिम् । अतस्तस्या अपि बाधनार्थमित सूत्रमित्यर्थः । इदं वृद्धिविधिद्वयमपि 'शुभ्रादिभ्यश्च' इत्यत्रैव वक्तुं युक्तम् । कल्याण्यादीनामिनङ् । प्रवाहणस्य ढे । उत्तरपदस्येत्यधिक्रियते । 'अर्धात्परिमाण-' इत्यतः 'पूर्वस्य तु वा' इति अनुवर्तते तदाह-उत्तरपदस्याचामादेरित्यादि । नित्यमुत्तरपदवृद्धेः फलं तु 'प्रवाहणेयीभार्यः' इत्यत्र 'वृद्धिनिमित्तस्य-' इति पुंवद्भावप्रतिषेधः । तत्प्रत्ययस्य च । 'प्रवाहणस्य' इत्यनुवर्तते, तच्छब्देन ढप्रत्ययः परामृश्यते तदाहढान्तस्येत्यादि । बाह्यतद्धितनिमित्तेति । ढक्प्रत्यया-ताबहिर्भूतो य इञ् तन्निमित्तेत्यर्थः । कल्याण्यादीनाम् । इह परस्त्रीशब्दः पठ्यते । 'परस्य स्त्री परस्त्री' इति षष्ठीसमासः । पारस्त्रैणेयः । परभार्यायामुत्पन्न इत्यर्थः । अनुशतिकादि
१'कल्याण्यादीनामिना च' इति क, ख पाठः । क्वचिदष्टाध्यायीपुस्तकष्वपि चकारो दृश्यते, अथापि बहुषु कौमुद्यष्टाध्यायीपुस्तकेष्वदर्शनाद् व्याख्याकृद्भिरव्याख्यातत्वात् , पूर्वसूत्रे चकारदर्शनाचेहोपेक्षितः ।