________________
प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१७ मिनडादेशः स्यात् , ढक्च । काल्याणिनेयः, बान्धकिनेयः। ११३२ कुलटाया वा।(४-१-१२७) इनङ्मानं विकल्प्यते । ढक्तु नित्यः पूर्वेणैव । कौलटिनेयः, कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थ कुलान्यटति तस्याः 'छुद्राभ्यो वा' (सू ११३७ ) इति पने टक् । कौलटेरः । ११३३ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । (७-३-१६) हृदायन्ते पूर्वोत्तरपदयोरचामादरचो वृद्धिर्मिति णिति किति च । सुहृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, तेषु भवः साक्तुसैन्धवः । इनकि डकार इत् । काल्याणिनेय इति । कल्याण्या अपत्यमिति विग्रहः । बान्धकिनेय इति । बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठ्यन्ते, तेभ्यो ढक सिद्ध एव । इनठेव तु विधीयते । कुलटाया वा इनमात्रमिति । व्याख्यानादिति भावः । पूर्वेणैवेति । 'स्त्रीभ्यो ढक्' इत्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति कुलटा। शकन्ध्वादित्वात्पररूपम् । अत्रेति । 'कुलटाया वा' इति सूत्र इत्यर्थः । पक्षे दगिति । ड्रगपि कदाचिद्भवतीत्यर्थः । कौलटेर इति । कुलटाया कि ढकारस्य एयादेशे 'लोपो व्योः' इति यकारलोप इति भावः । हृद्भग । हृदाद्यन्त इति । हृत् , भग, सिन्धु एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते, तदाह-पूर्वोत्तरपदयोरिति सौहार्द इति । अणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः। सौभागिनेय इति । कल्याण्यादित्वाद् ढकि इनङि उभयपदादिवृद्धिरिति भावः। एतत्प्रसङ्गादेव इदं त्वादुभयपदवृद्धिः । बिदादिगणे तु 'परस्त्री परशुं च' इति पठ्यते। प्राप्नोतीति शेषः । तत्र परा चासौ स्त्री चेति कर्मधारयः । परस्त्रिया अपत्यं पारशवः । ब्राह्मणाच्छूद्रायां तेनैवोढायामुत्पन्नः । सा च जात्यन्तरयोगात्परस्त्री। न च परश्वादेशस्य स्थानिवद्भावात्पारशवेऽपि 'अनुशतिकादीनां च' इत्युभयपदवृद्धिः स्यादिति वाच्यम् , सत्यादेशे पूर्वोत्तरपदसंप्रमोहात्तदप्रवृत्तेः । इह गणे स्त्रीप्रत्ययान्तानां ढकः सिद्धत्वादिनर्थ ग्रहणम् । अन्येषां तूभयार्थम् । कल्याणी, सुभगा, दुर्भगा, बन्धकी, परस्त्रीत्यादि । कुलटाया वा । शकन्ध्वादित्वात्पररूपमत एव निपातनाद्वा । सती भितुक्यत्रेति । अत्र इनविधौ । तथा चोक्लममरेण-अथ बान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः । कौलटेरः कौलटेयो भिक्षुकी तु सती यदि । तदा कौलटिनेयः स्यात्कौलटेयोऽपि चात्मजः' इति । केचित्तु क्षुद्राया अपि इनका तृतीयं रूपं कौलटिनेय इतीच्छन्ति । पक्षे ढगिति । ढगपि पक्षे भवत्येवेति भावः । हृद्भग । 'पूर्वपदस्य च' इति चकारेण 'उत्तरपदस्य' इत्यनुकृष्यते तदाह-पूर्वोत्तरपदयोरिति । 'महते