________________
३१८ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार११३४ घटकाया ऐरक् । (४-१-१२८) 'चटकादिति वाच्यम्' (वा २६२४) लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकरः । 'स्त्रियामपत्ये लुग्वक्तव्यः' (वा २६२५ )। तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् । ११३५ गोधाया दृक् । (४-१-१२६) गौधरः । शुभ्रादित्वात्पक्ष ढक् । गौधेयः । ११३६ पारगुदीचाम् । (४-१-१३०) गौधारः । रका सिद्धे अाकारोच्चारणमन्यतो विधानार्थम् । जडस्यापत्यं जाडारः। षण्डस्यापत्यं पाण्डारः । ११३७ तुद्राभ्यो वा । (४-१-१३१ ) अङ्गहीनाः शीलहीनाश्च सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्गात्रादित्वाद्भवे अञ् । उत्तरपदादिवृद्धयभावश्छान्दसः । सिन्धव इति । अश्वा इत्यर्थः । चटकाया ऐरक। चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः। ननु स्त्रीलि निर्देशात् पुंल्लिङ्गान्न स्यादित्यत आह-चटकादिति । सूत्रे चटकाया इत्यपनीय चटकादिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह-लिङ्गेति । स्त्रियः अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायाश्चेत्यर्थः । ननु चटकेति कथम् , जातित्वान् ङीष्प्रसङ्गादित्यत आह-अजादित्वादिति । गोधाया दक् । गौधेर इति। गोधाया अपत्यमिति विग्रहः । कि ढकार स्य एयादेशे 'लोपो व्योः-' इति यलोपः, कित्वादादिवृद्धिरिति भावः । श्रारगुदीचाम् । गोधाया
आरग्वा स्यादित्यर्थः । अन्यत इति । आकारान्तादन्यद् अदन्तम् , तस्मादपि क्वचिद्विधानार्थमित्यर्थः । जाडार इति । रग्विधौ आकारो श्रूयेतेति भावः । षण्डो नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना । तुद्राभ्यो वा अङ्गहीना इति । चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति । स वृत्तहीना इत्यर्थः । सौभगाय' इत्यत्र तूगात्रादित्वादञ् छान्दसत्वान्नोत्तरपदवृद्धिरित्याशयः । चटकाया ऐरक । 'चटकायाः' इति स्त्रीलिङ्गनिर्देशात्पुंसि न स्यादित्याशङ्कशाह-चटकस्येति वाच्यमिति। एवं च 'चटकादैरक्' इत्येव सांप्रदायिकः पाठ इति न्यासकृदुक्तिर्वार्तिकविरोधादुपेक्ष्या। तयोरेवेति । तत्र टाबन्तात्तद्धितलुकि 'लुक्तद्धितलुकि' इति टापोलुकि जातिलक्षणङीषं बाधित्वा अजादिलक्षणष्टाबिति भावः । गोधा। गौधेर इति । ढस्य एयादेशे कृते 'लोपो व्योः-' इति यलोपः । पारगुदीचाम् । वचनादेव द्रग्ढगारकां पर्याये सिद्धे उदीचांग्रहणं पूजार्थम् । 'अरक्' इति न सूत्रितम् 'यस्येति च' इत्याकारलोपे 'गौधरः' इत्यनिष्टप्रसङ्गात् । अन्यत इति । अनाकारान्ताल्लक्ष्यानुरोधेन कुतश्चिदित्यर्थः। पण्डस्येति । पण्डो नपुंसकः, तस्थापत्यं तु कृत्रिमादि
१ 'पण्ड' इति बहुत्र पाठ