________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१६ तुद्राः, ताभ्यो वा ढ़क् । पक्षे ढक् । काणेरः, काणेयः । दासेरः, दासेयः । ११३८ पितृष्वसुश्छण् । (४-१-१३२) अणोऽपवादः । पैतृष्वस्त्रीयः । ११३६ ढकि लोपः । (४-१-१३३) पितृष्वसुरन्त्यस्य लोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः । ११४० मातृष्वसुश्च । (४-१-१३४) पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वतीयः, मातृष्वसेयः । ११४१ चतुष्पाद्भयो ढञ् । (४-१-१३५) ११४२ ढे लोपोऽकव्वाः । (६-४-१४७) कभिन्नस्योवर्णान्तस्य भस्य लोपः स्याद् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाजातिविशेषे । ११४३ गृष्ट्यादिभ्यश्च । (४-१-१३६) एभ्यो ढञ् स्यात् । अण्ढकोरपवादः । गार्टेयः । मित्रयोरपत्यम्, ऋष्यणि प्राप्ते यथेष्ट पुरुषसंचारिण्य इति यावत् । 'अनियतपुंस्का अङ्गहीना वा चुदाः, इति भाष्यम् । पितृष्वसुश्छण् । पैतृष्वतीय इति पितृध्वसुरपत्यमिति विग्रहः । छस्य ईयादेशे श्रादिवृद्धिः । सकाराहकारस्य यण् । ढकि लोपः। पितृष्वसुरित्यनुवर्तते । अलोऽन्त्यपरिभाषया अन्त्यस्य लोपः । तदाह-पितृष्वसुरन्त्यस्य लोप इति । ननु पितृष्वसुरपत्ये ढक एव दुर्लभत्वात्कथं तस्मिन् परे लोपविधिरित्यत आह-अत एवेति । शुभ्रादित्वाद् ढगित्यन्ये । पैतृष्वसेय इति । ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः । 'मातृपितृभ्यां स्वसा' इति षत्वम् । मातृप्वसुश्च । चकाराच्छण ढकि लोपश्चानुकृष्यते । तदाह-पितृष्वसुर्यदुक्क्रमिति । चतुष्पाद्भयो ढञ् । चतुष्पादः पशवः, तद्विशेषवाचिभ्यः अपत्ये ढजित्यर्थः । ढे लोपोऽकद्रवाः । भस्येत्यधिकृतम् ‘ोर्गुणः' इत्यत ओरिति षष्ठ्यन्तेनानुवृत्तेन विशेष्यते। तदन्तविधिः । तदाह-कद्रभिन्नस्येति । 'अलोऽन्त्यस्य' इत्यन्त्यलोपः। ओर्गुणापवादः। कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि एयादेशे आदिवृद्धौ उकारलोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याचेतनस्य कथमपत्ययोगः, तदाह-कमण्डलुशब्दश्चतुष्पाज्जातिविशेष इति । अत एव 'कमण्डलुपदे श्रादधीत' इति बढचब्राह्मणं सगच्छत इति भावः । गृष्ट्यादिभ्यश्च । अगढकोरिति । गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्रयु-एते गृष्ट्यादयः । अत्र अन्त्ययोः ऋषित्वादण प्राप्तः। अन्येभ्यस्तु 'इतश्चानिञः' इति ढक् प्राप्त इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गौरव । ततश्च 'चतुष्पाभ्यः ' इत्यनेन न रिति । तुद्राभ्यः । अर्थगतं स्त्रीत्वं शब्दे आरोग्य स्त्रीलिङ्गनिर्देशः । गृष्ट्यादिभ्यश्च । गृष्टि, हृष्टि, हलि, बलि, कुदि, अजगस्ति, मित्रयु । अण्ढकोरपवाद इति । इहान्त्ययोर्द्धयोऋषित्वाद प्राप्तः, अन्येभ्यस्तु 'इतश्चानिञः' इति