SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार । ३२० ] ढञ् । ११४४ केकयमित्रयुप्रलयानां यादेरियः । ( ७-३-२ ) एषां यकारादेरियादेशः स्याद् ञिति णिति किति च तडिते परे । इति इयादेशे प्राप्ते । ११४५ दाण्डिनायन हास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसार वैदवाक मैत्रेयहिरण्मयानि । ( ६-४- १७४ ) एतानि प्राप्तिः । केकयमित्रयु । ' तद्धितेष्वचामादेः' इत्यतस्तद्धितग्रह रामनुवर्तते । 'अचोञ्णिति' 'किति च' इत्यतो णितीति, कितीति च तदाह – रषामिति । श्रादेशे यकारादकार उच्चारणार्थः । केकयस्यापत्यं स्त्री कैकेयी । 'जनपदशब्दात् -' इत्यञ् । मैत्रेयिकया श्लाघते, मित्रयोर्भाव इत्यर्थं 'गोत्रचरणात् -' इति वुञ् । प्रलयादागतं प्रालेयम्, अण् अत्र सर्वत्र यादेरियादेश इत्युदाहरणानि । प्राप्त इति । मित्रयोरपत्ये ढञि एयादेशे मित्रयु एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति श्राद्गुणे मैत्रेयेय इति प्राप्ते सतीत्यर्थः । दाण्डिनायन । एतानि निपात्यन्त इति । दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः हास्तिनायनः । नडादि - त्वात्फक् । निपातनाट्टिलोपो न । अथर्वणा प्रोक्को ग्रन्थ उपचारादथर्वा, तमधीते आथर्वणिकः । वसन्तादित्वात् ठक् । निपातनान्न टिलोपः । जिल्लाशिनोऽपत्यं जैह्माशिनेयः। शुभ्रादित्वाड्ढक् । निपातनान्न टिलोपः । वाशिनोऽपत्यं वाशिनायनिः । 'उदीचां वृद्धात् -' इति फिञ् । निपातनान्न टिलोपः । भ्रणहन धीवन एतयोर्भावे ष्यञ्, नकारस्य तकारश्च निपात्यते । नच 'हनस्तोऽचिराणलो:' इत्यनेनैव तकारः सिद्ध इति शङ्कथम्, 'धातोः कार्यमुच्यमानं तत्प्रत्यये भवति' इति परिभाषया 'हनस्तः-' इति तत्वस्य धातुविहितप्रत्यये पर एव प्रवृत्तेः । इदमेव तकारनिपातनमस्यां परिभाषायां ज्ञापकमिति 'मृजेर्वृद्धि:' इत्यत्र भाष्ये स्पष्टम् । तेन वार्त्रघ्नमित्यत्र तत्वं न । सरय्वां भवं सारवम् उदकम् । अणि यू इत्यस्य व इत्यादेशो निपात्यते । इक्ष्वाकोरपत्यमैक्ष्वाकः । जनपदशब्दात्क्षत्रियादञ् । उकारलोपो निपात्यते । बहुत्वे तु तद्राजत्वाल्लुक् । इक्ष्वाकवः । इक्ष्वाकुषु जनपदेषु भवोऽप्यैदवाकः । कोपधादण् । उकारलोपश्च । सूत्रे ऐक्ष्वाक्त्यत्र अणन्तयोर्ग्रहणम् । बहुत्वे तद्राजत्वादजो लुक् अणस्तु नेति विशेषः । हिरण्यस्य विकारो हिरण्मयः । मयटि एकाराद्यकाराकारविवेकः । गाष्य इति । सत्कृत्प्रसूता सर्वापि गृष्टिः, न तु गौरव । श्रतोऽत्र न 'चतुष्पाद्भ्यः-' इत्यनेन ढसिद्धिः । केकय । केकयस्यापत्यं स्त्री कैकेयी । 'जनपदशब्दात्क्षत्रियादञ्' । मैत्रेयिकया श्लाध्यते । मित्रयूणां भावेनेत्यर्थः । ' गोत्रचरणाच्छ्लाघात्याकार-' इति वुञ् । तत्र हि लौकिकं गोत्रं गृह्यते, लोके च 'ऋषिशब्दो गोत्रमिति प्रसिद्धम्' इति काशिका । एतच्च यदा मित्रयुशब्दोऽभेदोपचारात्तदपत्यसंताने
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy