________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२१ निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयी । ११४६ यस्कादिभ्यो गोत्रे । (२-४-६३) एभ्योऽपत्यप्रत्ययस्य लुक्स्यानरकृते बहुत्वे, न तु स्त्रियाम् । मित्रयोर्लोपः । इति युलोप इति । मित्रयु एय इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः । मैत्रेयीति 'टिड्ढाणञ्-' इति छीप् । यस्कादिभ्यो गोत्रे । नेदं सूत्रमपत्याधिकारस्थम् , किंतु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्यायप्रसिद्धमेव गोत्रमिह विवक्षितम् , 'अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते' इति 'यूनि लुक्' 'स्त्रीपुंसाभ्याम्-'' इत्यादिसूत्रभाष्ये सिद्धान्तितत्वात् । ‘ण्यक्षस्त्रियाषे-' इत्यतो लुगित्यनुवर्तते । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजवर्जमनुवर्तते । वर्तते तदा बोध्यम्, अन्यथा 'मित्रयूनाम्' इति बहुवचनान्तेन विग्रहो न स्यात् । प्रलयादागतं प्रालेयम् । इयादेशो वृद्धिं न बाधते 'अचामादरचो वृद्धिः' 'यादेरियादेशः' इति भिन्नविषयत्वात्, अङ्गं तूभयोर्विशेषणं न तु कार्याति हरदत्तः ।
आदिवृद्धेरपीदमेव सूर्व विधायकमस्तु । किमनेन विषयभेदविचारेणेत्यन्ये । दाण्डिनायन । निपात्यन्त इति । दण्डिन् , हस्तिन् , अाभ्यां नडादित्वात्फक्, निपातनाडिलोपाभावः । वसन्तादिषु 'अथर्वन्' इति पठ्यते । 'अथर्वणा प्रोक्लो ग्रन्थ उपचारादथर्वा, तमधीते पाथर्वणिकः' । शुभ्रादिषु 'जिह्माशिन्' इति पठ्यते तस्यापत्यं जैमाशिनेयः । वाश्निोऽपत्यं वाशिनायनिः । 'उदीचां वृद्धात्-' इति फिञ् । भ्रूणहन्, धीवन् , अनयोः ष्यजि तकारोऽन्तादेशो निपात्यते । भ्रणनो भावो भ्रौणहत्यम् । धैवत्यम् । 'हनस्तोऽचिएणलोः' इत्यनेनैव हन्तेस्तत्त्व सिद्धे तकारनिपातनं ज्ञापयति 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति । तेन वाघ्नमित्यत्र तत्त्वं न। नन्वेवं 'प्रसृड्भ्याम्' इत्यादौ 'अनुदात्तस्य च-' इत्यम् दुर्वारः स्यात् । अम्विधौ धातोः स्वरूपग्रहणाभावात् । अत्राहुः-'मृजेर्वृद्धिः' इति सूत्रस्थभाष्यपर्यालोचनया 'धातोः कार्यमुच्यमानं तत्प्रत्यये भवति' इति ज्ञापनार्थ तकार. निपातनमिति व्याख्येयम् । तेन न कोऽपि दोष इति । सरयू इत्यस्याणि परे य्वादेर्वो निपात्यते । सरय्वां भवं सारवमुदकम् । इक्ष्वाकोरपत्यं ऐक्ष्वाकः । 'जनपदशब्दाक्षत्रियाद' । उलोपो निपातनात् । इक्ष्वाकुषु जनपदेषु भवः 'कोपधादण' ऐक्ष्वाकः। अत्राप्युलोपो निपातनादेव । अनणन्तयोर्द्वयोरप्येकश्रुत्या पाठात् । बहुत्वे तु 'अञस्तद्राजत्वाल्लुक्' 'अणस्तु न' इति विशेषः । तथा च रघुः 'इक्ष्वाकूणां दुरापेऽर्थे' इति । मुरारिस्त्वाह 'ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमद्याशिषः' इति । हिरण्यस्य विकारो हिरण्मयः। मयटि यादेर्लोपोऽत्र निपात्यते । यस्कादिभ्यो। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यत इत्याशयेनाह-अपत्यप्रत्ययस्येति ।