________________
३२२ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार यवः।११४७ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । (२-४-६५) एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तस्कृते बहुत्वे, न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः । ११४८ बह्वच इञः प्राच्यभरतेषु । (२-४-६६) बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः। ११४६ न गोपवनादिभ्यः। (२-४-६७) एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाधन्तर्गणोऽयम् । गपवनाः । शैग्रवाः। ११५० तिककितवादिभ्यो द्वन्द्वे । (२-४-६८) एभ्यो गोत्रप्रत्ययस्य बहुरवे लुक्स्याद् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च, 'तिकादिभ्यः फिज्' (सू ११७८ ) तस्य लुक्, तिककितवाः । ११५१ उपकादिभ्योऽन्यतरस्यामतदाह-एभ्योऽपत्यप्रत्ययस्येति । मित्रयव इति । गित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्टयादिढको लुकि आदिवृद्धिनिवृत्तिः। अत्रिभृगु पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते, तदाह-एभ्यो गोत्रेति। अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गिरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अत्रेः 'इतश्चानिञः' इति ढकोऽनेन लुक् । इतरेभ्यस्तु ऋष्यण इति बोध्यम् । लुकि आदिवृद्धेर्निवृत्तिः । बह्वच इञः। प्राच्ये उदाहरति-पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इलो लुक् । भरतगोत्रे उदाहरति-युधिष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यं बाधित्वा बाह्लादित्वाद् इज, तस्य लुक् । अबहुत्वे तु यौधिष्ठिरिः । न गोपवनादिभ्यः । बिदाद्यन्तर्गणोऽयमिति । ततश्च अनः 'योश्च' इति प्राप्तस्य लुङ् नेति भावः । तिककितव । तैकायनयश्च कैतवायनयश्चेति । द्वन्द्वविग्रहप्रदर्शनम् । तिककितवा इति । द्वन्द्वे ‘ण्यक्षत्रियार्ष-' इत्यतो लुगित्यनुवर्तते, 'तद्राजस्य-' इति सूत्राद् ‘बहुषु तेनैवास्त्रियाम्' इति च, तदाह-लुक् स्यादित्यादि । तत्कृते इति किम् , प्रिययास्काः । बहुत्वे किम् , यास्कः । शिवायण । यस्क, लुह्य, द्रुह्य, कर्णाटक, वस्ति, कुद्रि, मित्रयु, इत्यादि । अत्रि । गोत्रप्रत्ययस्येति । अत्रिशब्दाद् 'इतवानिञः' इति ढक् । इतरेभ्यस्तु ऋष्यणिति बोध्यम् । भरतगोत्रे उदाहरति-युधिष्ठिरा इति । बहुष्वेव लुक् । नेह यौधिष्ठिरिः । कुरुलक्षणं ण्यं बाधि वा बाह्वादित्वादि । बिदाद्यन्तर्गणोऽयमिति । 'योश्च' इति लुगत्र प्राप्नोतीति भावः । तिककितवादिभ्यो । यद्यपि द्वन्द्वरूपाण्येव गणे पठ्यन्ते, तिकादीनि पूर्वपदानि, कितवादीन्युत्तरपदानि, तथापि 'तिकादिभ्यः' इत्युक्ते पूर्वपदेष्वेव लुगाशङ्कयेत, इष्यते तूत्तरपदेष्वपि, अतः 'तिककितवादिभ्यः' इत्युक्तम् । कितकितवा इति । अन्येऽ