SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२३ द्वन्द्वे । (२-४-६६ ) एभ्यो गोत्रप्रत्ययस्य बहुस्वे लुग्वा स्याद् द्वन्द्वे चाद्वन्द्वे च । [ौपंकायनाश्च लामकायनाच, 'नडादिभ्यः फक्' (सू १९०१), तस्य लुक्, उपकलमकाः, औपकायनलामकायनाः। भ्राष्ट्रककपिष्ठलाः, भ्राष्ट्रकिकापिष्ठलयः । उपकाः, औपकायनाः । लमकाः, लामकायनाः ।] ११५२ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् । (२-४-७०) एतयोरवयवस्य गोत्रप्रत्ययस्यायो यजश्च बहुषु लुक्स्यात् , अवशिष्टस्य प्रकृतिभागस्य यथासंख्यम् अगस्ति कुण्डिनच् इति सप्तमीनिर्देशात् पदद्वयादपि फिलो लुक् । उपकादिभ्यो । चकारमध्याहृत्याहद्वन्द्वे चेति । एवं च अस्वरितत्वादेव पूर्वसूत्राद् द्वन्द्वग्रहणानुवृत्त्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव । नच द्वन्द्वे नेति निषेध एव किं न स्यादिति वाच्यम् , द्वन्द्वानामपि गणे पाठात् । तदेतत्सूचयन् द्वन्द्वमुदाहरति-भ्राष्टककपिष्ठला इति । इजो वा लुक् । अद्वन्द्वे उदाहरति-लमकाः, लामकायना इति । अश्वादिप्यत्रोदाहर्तव्याः-औपकायनाश्च लामकायनाच, 'नडादिभ्यः फक्' तस्य लुक् । उपकलमकाः । भ्राष्ट्र कयश्च कापिष्ठलयश्च 'श्रत इञ्' तस्य लुक् भ्राष्ट्रककपिष्ठलाः। कार्णाजिनयश्च कार्णसुन्दरयश्च 'अत इस' तस्य लुक् कृष्णाजिनकृष्णसुन्दरा इत्यादि। उपकादिभ्यो । श्रद्वन्द्वग्रहणं 'द्वन्द्वे' इत्येतनाधिक्रियत इति स्फुटीकरणार्थम् । उपकादीनां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते 'उपकलमकाः' इत्यादयस्तेषां पूर्वेण नित्यमेव लुक् , अद्वन्द्व त्वनेन विकल्प इति ज्ञेयम् । भाष्ये 'भ्राष्ट्रकिकापिष्ठलयः' इत्युदाहरणात्तिककितवादिष्वस्य पाठोऽनार्ष इति कैयटः । तेनात्र द्वन्द्वेऽपि विकल्प एवोचित इत्याशयेनोदाहरति-भ्राष्ट्रककपिष्ठला इत्यादि । तिककितवादिषु पठितानामनेनाद्वन्द्व एव विकल्प इत्याशयेनोदहरति-लमकाः । लामकायना इति । एवमन्येऽप्युदाहर्तव्याः । उपकाः औपकायनाः, भ्राष्ट्रकाः भ्राष्ट्रकायना इत्यादि । आगस्त्य । अगस्त्यशब्दादृष्यण, कुण्डिनीशब्दात्तु गर्गाद्यञ् । ननु कुण्डिनीशब्दस्य यत्रि 'भस्याढे-' इति पुंवद्भावे 'नस्तद्धिते' इति टिलोपः प्राप्नोति । न च 'संयोगादिश्च' इति प्रकृतिभावः शङ्कयः, 'अणि' इति तत्रानुवर्तनात् । मैवम् , अस्मादेव निपातनात् तस्याप्रवृत्तेः कौण्डिन्यः सिध्यति । चकारस्त्वन्तोदात्तार्थः । मध्योदात्तः कुण्डिनीशब्दः । कुण्डमस्त्यस्या इति मत्वर्थीयस्येनेरुदात्तत्वादादेशस्यापि कुण्डिनशब्दस्यान्तरतम्यान्मध्योदात्तत्वात् । अवशिष्टस्य प्रकृतिभाग १ बन्धनीधृतः पाठो बालमनोरमायां न व्याख्यातः, अथापि पुस्तकान्तर संवादाय धृतः । २ नायं मूलपाठो बालमनोरमासंमतः। कौमुदीपुस्तकान्तरेष्वपि क्वचिन्न दृश्यते । क्वचिच्च 'उपकाः, औपकाः, लमकाः, लामकाः' इत्येव दृश्यते।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy