________________
३२४ ]
सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार एतावादेशौ स्वः । अगस्तयः । कुण्डिनाः । ११५३ राजश्वशुराद्यत् । (४-४-१३७) 'राज्ञो जातावेवेति वाज्यम्' (वा २६२७) । ११५४ ये चाभावकर्मणोः । (६-४-१६८) यादौ तद्धिते परेऽन्प्रकृत्या स्थान तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पनो राजनः । ११५५ अन् । (६-४-१६७) अणि अन् प्रकृत्या स्यात् । इति टिलोपो न । अभावकर्मणोः किम्-राज्ञः कर्म भावो वा राज्यम् । १९५६ संयोगादिश्च । (६-४-१६६) इन् प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः । फलो लुग्विकल्पः । उपका औपकायना इत्याद्यप्युदाहार्यम् । आगस्त्य । अगस्तयः। कुण्डिना इति । अगस्त्यशब्दादृष्यणो लुक् प्रकृतेरगस्त्यादेशः। कौण्डिन्यशब्दो गर्गादियअन्तः । बहुत्वे यो लुक् । प्रकृतेः कुण्डिनादेशश्च । 'यस्कादिभ्यो गोत्रे' इत्यारभ्य 'आगस्त्यकौण्डिन्ययोः-' इत्यन् द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम् । राजश्वशुराद्यत् । राजन्शब्दात् श्वशुरशब्दाचापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अणिओरपवादः। राज्ञो जातावेवेति । जातिः समुदायवाच्या चेदित्यर्थः । ये चाभावकर्मणोः । 'अन्' इति पूर्वसूत्रमनुवर्तते। 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति । अङ्गाधिकारलब्धप्रत्ययो यकारेण विशिष्यते । तदादिविधिः। तदाह-यादाविति । राजन्य इति । क्षत्रियात् क्षत्रियायां स्वभार्यायामुत्पन्नो राजन्य इति धर्मशास्त्रेषु प्रसिद्धम् । यत्प्रत्यये प्रकृतिभावान टिलोपः । शूद्रादाविति। क्षत्रियात् शूदायां वा तदन्यस्यां वा अनूढायाम् उत्पन्न इत्यर्थः। राजन इति । अणि रूपम् । तत्र 'नस्तद्धिते' इति टिलोपे प्राप्ते । अन् । 'इनण्यनपत्ये' इत्यतः अणीत्यनुवर्तते, 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति च, तदाह-प्रणीति । राज्यमिति । 'गुणवचनब्राह्मणादिभ्यः' इति ध्यञ् । टिलोपः । संयोगादिश्च । इन् प्रकृत्येति । 'इनण्यनपत्ये' इत्यतः 'प्रकृत्यैकाच्' इन्यतश्च तदनुवृत्तेरिति भावः । चक्रिणोऽपत्यं चाक्रिण इति । 'इनण्यनपत्ये' इत्यत्रानपत्ये इति स्येति । न च प्रत्ययविशिष्टस्यादेशमानं विधीयतां किं लुग्विधानेनेति वाच्यम् , अगस्तीयाश्छात्रा इत्यनापत्तेः, लुकि हि सति 'गोत्रेऽलुगचि' इति लुकि प्रतिषिद्धे वृद्धत्वाच्छः सिध्यति । प्रत्ययविशिष्टस्यादेशविधौ तु वृद्धत्वापगमे शैषिकोऽणेव स्यात् । कौण्डिनाश्छात्रा इति तूभयथापि सिद्ध्यत्येव । छापवादस्य 'कण्वादिभ्यो गोत्रे' इत्यणप्रत्ययस्य प्रवृत्त्या तत्र विशेषाभावात्।राजश्वशुराद्यत् । क्रमेणाणिजोरपवादः । जातावेवेति । प्रकृतिप्रत्ययसमुदायेन जातिश्चेद्वाच्यत्यर्थः । प्रत्ययस्त्वपत्य एव । एवं च पङ्कजादिवद्योगरूढ इति फलितोऽर्थः। अन् टिलोपोनेति । 'नस्तद्धिते'