________________
प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२५ ११५७ न मपूर्वोऽपत्येऽवर्मणः । (६-४-१७०) मपूर्वोऽन् प्रकृत्या न स्यादपत्येऽणि । भादसामः । मपूर्वः किम्-सौत्वनः । अपत्ये किम्-चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम्-चक्रवर्मणोऽपत्यं चाक्रवर्मणः । 'वा हितनान्न इति वाच्यम्' (वा ४२११)। हितनाम्नोऽपत्यं हैतनामः, हैतनामनः । ११५८ ब्राह्मो जातौ । (६-४-१७१) योगविभागोऽत्र कर्तव्यः । ब्राझ इति निपात्यतेऽनपत्येऽणि । ब्राझं हविः । ततो जातौ । अपत्ये जातावणि पर्युदासादप्राप्तिः । न मपूर्वोऽपत्येऽवर्मणः। भाद्रसाम इति । भद्रसाम्नोऽपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान प्रकृतिभावः । सौत्वन इति । सुत्वनोऽपत्यमिति विग्रहः । मपूर्वत्वाभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः। अणः आपत्यत्वाभावात्प्रकृतिभावः। वा हितनाम्न इति । 'न मपूर्वः' इति प्रतिषेध इति शेषः। ब्राह्मौ जाती। ब्रह्मशब्दादपत्ये अणि 'न मपूर्वोऽपत्ये-' इति प्रकृतिभावनिषेधो जातावेवेत्यर्थः फलति । तथा सति ब्रह्मणोऽपत्यं ब्राह्मण इति जातिविशेषे न सिध्यत् , 'नमपूर्वः-' इति प्रकृतिभावनिषेधे सति 'नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किंच ब्रह्मा देवता अस्य ब्राह्मं हविरिति न सिध्येत् , 'न मपूर्व-' इति प्रकृतिभावनिषेधस्य जातावेवेति नियमितत्वेन 'अन्' इति प्रकृतिभावाट्टिलोपासंभवात् , अत आह-योगविभाग इति । 'ब्राह्मः' इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतः अनपत्येऽणीत्यनुवर्तते, तदाह-ब्राहा इति निपात्यते अनपत्येऽणीति । तथाच ब्रह्मन्शब्दादनपत्येऽणि अनिति प्रकृतिभावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति--ब्राह्मं हविरिति । ब्रह्मा देवता अस्येति विग्रहः । ‘सास्य देवता' इत्यण् । ततो जाताविति । ततो ब्राह्म इति प्राप्तष्टिलोपो नेत्यर्थः । ब्राह्मो जातौ । योगविभागोऽत्रेति । एकयोगत्वे त्वारम्भसामर्थ्यादनपत्ये जातो 'ब्राह्मी' इत्यत्र प्राप्तटिलोपसिद्धावपि ब्राह्मण इति न सिद्ध्येत् । 'अन्' इति प्रकृतिभावस्य 'न मपूर्वोऽपत्ये-' इति निषेधाडिलोपस्य दुर्वारत्वात् । किंच जाती ब्राह्मणमित्यादि न सिचेत्, 'अन्' इति प्रकृतिभावस्य दुरित्वादिति भावः । ब्राह्म इति । इह 'अपत्ये' इति न सम्बध्यते । अन्यथा निपातनमिदं व्यर्थ स्यात् 'न मपूर्व-' इति प्रकृतिभावनिषेधाडिलोपसिद्धरित्याशयेनाह–अनपत्येऽणीति । ब्राह्ममिति । 'ब्राह्मो मुहूर्तः, ब्राह्मः स्थालीपाकः' इत्याद्यप्युदाहरणम् । नन्वेवमपि ब्राह्मणो न सिध्यति 'न मपूर्वः' इति प्रकृतिभावनिषेधादपत्येऽणि 'नस्तद्धिते' इति टिलोपप्रवृत्तेरत आह-जाताविति । इह
१ 'ब्रह्म' इति क. ख.।