________________
३२६ ]
सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारब्रह्मणष्टिलोपो न स्यात् । ब्रह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम्-प्राझी ओषधिः । ११५६ औक्षमनपत्ये । (६-४-१७३) अणि टिलोपो निपात्यते । और पदम् । अनपत्ये किम्- उषणोऽपत्यमौषणः। ११६० षपूर्वहन्धृतराज्ञामणि (६-४-१३५ ) षपूर्वो योऽन् तस्य हनादेश्च भस्थातो लोपोऽणि । औषणः । ताणः । श्रौणनः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षपूर्व इति किम्-सानोऽपत्यं सामनः । अणि किम्-ताक्षण्यः । ११६१ क्षत्त्राद्धः । (४-४-१३८) क्षस्त्रियः । जातौ इत्येव, क्षास्त्रिरन्यः । ११६२ कुलात्खः । (४-४-१३६ ) कुनीनः । तदन्तादपि, उत्तरसूत्रे अपूर्वपदाद् इति लिङ्गात् । बाढयकुलीनः । इति सूत्रात्पृथगेव 'जातौ' इति सूत्रं कर्तव्यमित्यर्थः । इह 'न मपूर्वोऽपत्येऽवर्मणः' इति सूत्रादपये इति 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति चानुवर्तते, तदाह-- अपत्ये जाताविति । ब्राह्मण इति । ब्रह्मणः सकाशात्सजातीयायां भार्यायामुत्पन्न इत्यर्थः । योगविभागस्त्वयं भाष्ये स्पष्टः। औक्षम् । शेषपूरणेन सूत्रं व्याचष्टे-अणि टिलोपो निपात्यत इति । 'अन्' इति प्रकृतिभावापवाद इति भावः । औक्षमिति । टिलोपे रूपम् । औक्षण इति । अपत्येऽणि टिलोपा. भावे अल्लोप इति भावः । ननु प्रकृतिभावादल्लोपो न स्यादन आह-पपूर्वहन् । 'अल्लोपोऽनः' इत्यनुवर्तते । भस्यत्यधिकृतम् । तदाह-षपूर्व इति । ताक्षण इति । 'तक्ष्णोऽण उपसंख्यानम्' इति कारिलक्षणण्यस्यापवादोऽण् । ताक्षरय इति। 'सेनान्तलक्षणकारिभ्यश्च' इति एयः। क्षत्राद्धः। अपत्ये इति शेषः। क्षत्रिय इति । घस्य इयादेशे 'यस्येति च' इत्यकारलोपः । क्षात्रिरन्य इति । क्षत्राच्छूद्रादावुत्पन्न इत्यर्थः । कुलात्खः । अपत्ये इति शेषः । कुलीन इति । खस्य ईनादेशः । ननु 'समासप्रत्ययविधौ-' इति तदन्तविधिनिषेधाद् श्राध्यकुलीन इति कथमि. त्यत आह-तदन्तादपीति।आत्यकुलीन इति । आब्यकुलशब्दात्कर्मधारमण्डूकप्लुत्या 'अपत्ये' इत्यनुवर्तते, 'न' इति च तदेतदाह-अपत्ये जातावित्यादिना । अयमत्रार्थः-'अपत्ये जातौ ब्राह्मणशब्दे टिलोपो न भवति' इति । केचिदिह 'अजातौ' इति छित्त्वा 'जातौ न भवति' इति व्याचक्षते । तस्मिंस्तु व्याख्याने 'न' इति नानुवर्तनीयम् । जातौ किम् , ब्राह्मो नारदः । तादण इति । शिवादित्वात् , 'तस्येदम्' इति वाण् । ताक्षण्य इति । कारिलक्षणो ण्यः । कुलात्खः । केवलात्कुलशब्दाद् 'अपूर्वपदात्-' इत्यादिना विशेषविहिताभ्यामपि। यड्ढकञ्भ्यां खो न बाध्यते, तद्विधावन्यतरस्यांग्रहणादित्याशयेनाह-कुलीन इति । लिङ्गादिति । अन्यथा 'ग्रहणवता-' इति तदन्तविधिप्रतिषेधादपूर्वपदग्रहणं व्यर्थ स्यादिति भावः ।