________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२७ ११६३ अपूर्वपदादन्यतरस्यां यड्ढको । (४-४-१४०) कुलाद् इत्येव । पक्षे खः। कुल्यः, कौलेयकः, कुलीनः । पदग्रहणं किम्-बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः । ११६४ महाकुलादञ्खो । (४-४-१४१) अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः, माहाकुलीनः, महाकुलीनः । ११६५ दुष्कुलाड्ढक् । (४-१-१४२) पूर्ववपक्षे खः । दौष्कुलयः, दुष्कुलीनः । ११६६ स्वसुश्छः। (४-१-१४३) वस्त्रीयः । ११६७ भ्रातुय॑श्च । (४-१-१४४) चाच्छः । अणोऽपवादः । भ्रातृव्यः, भ्रात्रीयः । ११६८ व्यन्सपत्ने । (४-१-१४५) भ्रातुय॑न् स्यादपत्ये, प्रकृतिप्रत्ययसमु. दायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । 'पाप्मना भ्रातृव्येण' इति तूपचारात् । यात्खः । कुल ाढयत्वप्रतीतिरत्र फलम् । कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः । अपूर्वपदादन्यतरस्याम् । कुलादित्येवेति । पूर्वपदरहितात् कुलादपत्ये यड्ढको वा स्त इत्यर्थः । पक्षे ख इति । यड्ढकोरभावपक्ष इत्यर्थः। बहुकुल्य इति । 'विभाषा सुपः-' इति बहुच्प्रत्ययो न पदम् । अतः पूर्वपदरहितत्वाद् यड्ढकञ्खा भवन्त्येवेत्यर्थः । महाकुलादञ्खो । अनुवर्तत इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेः 'पीलाया वा इत्यत्रोक्तत्वात्पूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह-पक्षे ख इति । तथा सति आदिवृद्धिर्नेति भावः । दुष्कुलाढक् । पूर्ववदिति । अन्यतरस्यांग्रहणानुवृत्तेरिति भावः । स्वसुश्छः । अपत्य इति शेषः । स्वस्नीय इति । छस्य ईयादेशः, ऋकारस्य यण् । भ्रातुर्व्यञ्च । तकारः 'तित्स्वरितम्' इति स्वरार्थ इति बोध्यम् । व्यन् सपत्ने । अपत्य इति । प्रत्ययेनापत्यमुच्यते । भ्रतृशब्दार्थस्तु न विवक्षितः । तथा च 'भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुः' इति भाष्ये स्पष्टम् । ननु 'पाप्मना भ्रातृव्येण' इति कथम् , पाप्मनोऽपत्यत्वाभावादित्यत आह-पाप्मना भ्रातृव्येण इति तूपचारादिति । हिंसकत्वगुणयोगाल्लाक्षणिक आढयकुलीन इति । श्रादयश्चासौ कुलीनश्चेति कुलीनविशेषणत्वे कुलस्याढ्यत्वं न प्रतीयते । किं च ईकार उदात्त इति खरेऽपि विशेषोऽस्तीति भावः । बहुकुल्य इति । 'विभाषा सुपः-' इति बहुच्प्रत्ययो न पदमिति अपूर्वपदत्वात्प्रत्ययत्रयं भवत्येवेति भावः । व्यन्स्यादिति । भ्रातुरपत्यं यदि शत्रुः तदा भ्रातृशब्दाद् व्यनेव स्यात् । न तु व्यच्छौ इत्यर्थः । समुदायेनेति । तद्धटितप्रत्ययेन शत्रुरूपेऽपये वाच्य इत्यर्थः । यत्तु वृत्तिकृतोक्लम् 'अपत्यार्थोऽत्र नास्त्येव' इति, तदुपक्ष्यं भाष्य. विरोधादिति मनसि निधायाह-पाप्मनेति । श्रुतिगतभ्रातृव्यशब्दस्य गतिं