________________
३२८ ]
सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार११६६ रेवत्यादिभ्यष्ठक् । (४-१-१४६) ११७० ठस्येकः । (७-३-५०) अङ्गापरस्य ठस्येकादेशः स्यात् । रैवतिकः । १९७१ गोत्रस्त्रियाः कुत्सने रण च । (४-१-१४७) गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठको स्तः कुत्सायाम् । सामर्थ्याथूनि । गार्या अपत्यं गार्गः, गार्गिको वा जाल्मः । 'भस्याढे तद्धिते' इति पुंवद्भावाद्गार्यशब्दाएणठको । 'यस्य-' (सू ३९१ ) इति लोपः । इत्यर्थः । रेवत्यादिभ्यष्ठक । अपत्य इति शेषः । ढगाद्यपवादः । ठस्येकः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते। तदाह-अङ्गात्परस्य ठस्येति । ठकारस्येत्यर्थः । रैवतिक इति। रेवत्या अपत्यमिति विग्रहः । ठकि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इकः अदन्त आदेशः । अङ्गात्किम् ? कमठ इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अगसबन्धिठस्येति व्याख्याने कर्मठ इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इकादेशमाशङ्कय अङ्गसंज्ञानिमित्तं यष्टकास्तस्येको भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च उकि अकार उच्चारणार्थः, ठकार एव प्रत्यय इति विज्ञायते । 'ठस्टे ति संघातग्रहणम्' इत्यपि भाष्ये स्थितम् । अस्मिन्पक्षे ठकि अकार उच्चारणार्थो न भवति, संघात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम् । गोत्रस्त्रियाः। ण इति लुप्तप्रथमाकम् । चात् ठगनुकृष्यते। तदाह-गोत्रं या स्त्री इत्यादिना सामर्थ्यादिति। 'एको गोत्रे' इति नियमादिति भावः । गा- अपत्यमिति। गर्गस्य गोत्रापत्यं स्त्री गार्गी। 'गादिभ्यः' इति यञ् । 'यसश्च' इति ङीप् । 'यस्यति च' इत्यकारलोपः । 'हलस्तद्धितस्य' इति यकारलोपः । गार्या अपत्यं युवेति विग्रहः । पितुरविज्ञाने मात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे च 'यस्येति च' इति लोपे गार्गो गार्गिक इति सिध्यति । तथापि वस्तुस्थितिमाह-पुंवद्भावादिति । 'भस्याढे-' इति पुंवत्त्वे सति डीपो निवृत्तौ भूतपूर्वगत्या स्त्रीवाचकत्वमादाय गार्यशब्दारणठकावित्यर्थः। वदति-उपचारादिति । 'अस्त्री पत पुमान्पाप्मा पापं किल्बिषफल्मषम्' इत्यमरः। न हि पापं भ्रातुरपत्यं भवतीत्यतो भाव एवायं प्रयोग इति भाषः । रेवत्या । रेवती, अश्वपाली, मणिपाली, द्वारपाली, इत्यादि । ठस्येकः । 'अङ्गस्य' इत्यनुवर्तनादाह-अङ्गात्परस्येति । 'अङ्गात्' इति ठकारविशेषणादठचष्ठका स्य न भवति । कर्मठः । गोत्रस्त्रियाः । णित्त्वं तु 'ग्लुचुकायन्या अपत्यं ग्लै चुकायनो जाल्मः' इत्यत्र फिन्नन्तारणे वृद्ध्यर्थमिति बोध्यम् । सामर्थ्याधुनीति । 'गोत्रादपरो गोत्रप्रत्ययो न' इत्युक्तत्वादिति भावः । गार्या अपत्यमिति । पितुरसंविज्ञाने मात्रा व्यपदेशात् कुत्सा । गोत्रेति किम् , कारिकेयो जाल्मः । स्त्रियाः किम् ,