________________
प्रकरणम् २६ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३२९ 'भापत्यस्य-' (सू १०८२) इति यलोपः । ११७२ वृद्धाटक सौवीरेषु बहुलम् । (४-१-१४८) सुवीरदेशोद्भवाः सौवीराः। वृद्धासौवीरगोत्राथूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः, भागवित्तिकः । परे फक् । भागवित्तायनः । ११७३ फेश्छ च । (४-१-१४६) फिसन्तासौवीरगोत्रादपत्ये छः ठक्च कुरसने । गम्ये यमुन्दस्यापत्यं यामुन्दायनिः, तिकादित्वारिफम् । तस्यापत्यं यामुन्दायनीयः, यामुन्दायनिकः । कुस्सने किम्-यामुन्दायनिः । औत्सर्गिकस्यायो 'एयक्षत्रिय-' (सू १२७६ ) इति लुक् । सौवीर इति किम्-तैकायनिः । ११७४ फाण्टाहृतिमिमताभ्यां णफिौ । (४-१-१५०) सौवीरेषु । नेह यथासंख्यम् , अल्पान्तरस्य परनिपातालिङ्गाद् इति वृत्तिकारः। भाष्ये तु 'यथासंख्यमेव' इति स्थितम्। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। नच 'वृद्धिनिमित्तस्य च-' इति पुंवत्त्वनिषेधः शङ्कयः, सौत्रस्यैवाय निषेधो न तु 'भस्याढे-' इति वार्तिस्येत्युक्तत्वात् । 'भस्याढे-' इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमभ्युपगम्य गार्यशब्दादित्युक्तम् । तच्च समूहाधिकार 'भिक्षादिभ्योऽण्' इत्यत्र स्फुटीभविष्यति। स्त्रियाः किम् ? औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा। गोत्रेति किम् ? कारिकेयः। णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्धयर्थम् । वृद्धाक्सौवीरेषु। पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते । सौवीरेष्विति प्रकृतिविशेषणम् । तदाह-वृद्धादिति । 'वृद्धिर्यस्याचामादि:-' इति वृद्धसंज्ञका. दित्यर्थः । ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरं गोत्रापत्यं भागवित्तिः, तस्यापत्यं युवेत्यर्थे ठकि इकादेशे भागवित्तिक इति रूपमित्यर्थः । पक्ष फगिति । 'यजिओश्च' इस्यनेनेति शेषः । फेश्छ च। छेति लुप्तप्रथमाकम् । यमुन्दस्येति । यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दा. यनिरिति । यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाभावात् छठगभावे 'तस्यापत्यम्' इत्यण् । ‘ण्यक्षत्रियार्ष-' इति तस्य लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थे असौवीरत्वात् छठगभावे 'तस्यापत्यम्' इत्यण् । 'एयक्षत्रिय-' इति तस्य लुगिति भावः । फाण्टाहति । सौवीरोध्विति। शेषपूरणमिदम् । सौवीरगोत्रादित्यर्थः । फाण्टाहृतस्य गोत्रापत्यं फाण्टाहृतिः, अत इञ्। तस्यापत्यं सुवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीर.
औपगवस्यापत्यम् औपगविर्जाल्मः । कुत्सनेति किम् , गार्गेयो माणवकः । फाण्टाहृति । 'कुत्सने' इति निवृत्तम् । वृत्तिमते णित्त्वस्य फलमस्तीति ध्वनयन्नुदाहरति-मैमत इति । न च भाष्यमतेऽपि 'फाण्टाहृताभार्यः' इत्यत्र 'वृद्धि