SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३३० ] सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार 1 १७७५ कुर्वादिभ्यो रयः । ( ४-१ - १५१ ) अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः | 'सम्राजः क्षस्त्रिये' (ग सू ७५ ) । साम्राज्यः । साम्राजोऽन्यः । ११७६ सेनान्तलक्षणकारिभ्यश्च । ( ४- १ - १५२ ) एभ्यो ण्यः । 'एति संज्ञायाम् -' ( सू १०२३ ) इति सस्य षः । हारिषेण्यः । लक्षण्यः । कारिः शिल्पी, तस्मात् तान्तुवाय्यः । कौम्भकार्यः । नापित्यः । ११७७ उदीचामिञ् । गोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाभावाच्चेति भावः । कुर्वादिभ्यो रयः । अपत्ये इति । शेषपूरणमिदम् । सौवीरेष्विति निवृत्तम् । कौरव्या ब्राह्मणा इति । कुरुर्नाम कश्चिद् ब्राह्मणः । तस्यापत्यानीति विग्रहः । रयप्रत्यये श्रोर्गुणे अवादेशः, आदिवृद्धिः । यस्तु 'कुरुनादिभ्यो ण्यः' इति रायो वक्ष्यते, तस्य तद्राजत्वाद् बहुषु लुकि कुरवः क्षत्त्रिया इति भवति । एतत्सूचनार्थमेव बहुवचनं ब्राह्मणा इति विशेष्यं चोदाहृतम् । वावदूक्या इति । वावदूकस्यापत्यानीति विग्रहः । सम्राजः क्षत्रिय इति । कुर्वादिगणसूत्रम् । अपत्य इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् | साम्राजोऽन्य इति । सम्राजः शूद्रादौ उत्पन्न इत्यर्थः । सेनान्त । एभ्य इति । सेनान्तलक्षणकारिभ्य इत्यर्थः । अकुर्वादित्वाद्वचनम् | हारिषेण्य इति । हरिषेणो नाम कश्चित् । 'एति संज्ञायम् -' इति षत्वम्, तस्यासिद्धत्वात्सेनान्तत्वा यः । लाक्षराय इति । लक्षणमस्यास्तीति लक्षणः, अर्शश्राद्यच्, तस्यापत्यमिति विग्रहः । कारिपदं व्याचष्टे -- कारिः शिल्पीति । तस्मादिति । कारिविशेषनिमित्तस्य -' इति पुर्वद्भावनिवृत्तिणित्त्वफलमस्तीति वाच्यम्, स्त्रियाम्' इति युवसंज्ञानिषेधाद् गोत्रसंज्ञासद्भावाद् 'एको गोत्रे' इति नियमादिञन्तात्फाण्टाहृतिशब्दादन्यस्यापत्यप्रत्ययस्याभावात्फाण्टाहृताशब्दस्यैवासत्त्वादिति भावः । कुर्वादिभ्यो । 'सौवीरेषु' इत्यपि निवृत्तम् । कौरव्या ब्राह्मणा इति । यत्तु 'कुहनादिभ्यो ण्यः' इति वक्ष्यति तस्य तद्राजत्वाद्बहुषु लुकि 'कुरवः क्षत्रियाः' इति भवति, न तु ‘कौरव्याः' इति भावः । वावदूक्या इति । वदेर्यङन्तादूकप्रत्ययः। स चात्रैव गणे निपातनादित्याहुः । कुरु, गर्ग, वावदूक । सम्राजः क्षत्रिय इति । सम्राट् - शब्दाद् राय इत्यर्थः । वामरथस्य कण्वादिवत्स्वरवर्जम् । यजन्तस्य कारवशब्दस्य यत्कार्यं तत् ण्यप्रत्ययान्तस्य वामरथ्यशब्दस्य स्यात् श्रायुदात्तं विनेत्यर्थः । बहुत्वे 'यञञोश्च' इति लुक् । वामरथाश्छात्राः । ' कण्वादिभ्यो गोत्रे' इति छापवादोऽण् । वामरथी । वामरथ्यायनी स्त्री । ' यञश्च' । प्राचां ष्फ तद्धितः' इति ङीषूष्फौ । वामरथानि सङ्घाङ्कलक्षणानि 'सङ्घाङ्कलक्षणेषु' इति छापवादोऽण् । सत्यङ्कार, वलभीकार, बुद्धिकार, इत्यादि । हारिषेण्य इति । 'एतिसंज्ञायाम् -' इति
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy