________________
प्रकरणम् २६ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३३१ (४-१-१५३ ) हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वारिफलेव । नापितायनिः । 'तषणोऽण उपसंख्यानम्' (वा २५४०) 'षपूर्व-' (सू ११६०) इत्यनोऽकारलोपः । तापणः पक्षे ताक्षण्यः । ११७८ तिकादिभ्यः फिम् । (४-१-१५४) तैकायनिः । ११७६ कौसल्यकार्याभ्यां च । (४-१-१५५) अपत्ये फिन् । इलोऽपवादः। परमप्रकृतेरेवायमिष्यते । प्रत्ययसभियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्थापत्य कार्मार्यायणिः । 'छागवृषयोरपि' (वा २६४३) । छाग्यायनिः । वायायणिः। ११८० अणो वचः। (४-१-१५६) अपत्ये फिञ् । इनोऽपवादः । कार्वायणिः । अण इति किम्-दाक्षायणः । यचः किम्वाचिनो ण्ये सतीत्यर्थः। तान्तुवाय्य इति । तन्तुवायस्यापत्यमिति विग्रहः । कौम्भकार्य इति । कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति । नापित. स्यापत्यमिति विग्रहः । उदीचामि । सेनान्तलक्षणकारिभ्य इञ् स्यादुदीचां मते इत्यर्थः । नापितात्तु परत्वात् फिजेवेति । उदीचां वृद्धादित्यनेनेति शेषः। तक्ष्णोऽण उपसंख्यानमिति । उदीचां मत इति शेषः । तादण इति । अणि प्रकृतिभावान्न टिलोपः । अल्लोपस्तु 'षपूर्वहन्-' इति वचनाद्भवति । पक्षे ताक्षण्य इति । प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः । ये चाभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । तिकादिभ्यः फिञ् । इञोऽपवादः । तैकायनिरिति । फिनि श्रायन्नादेशः । कौसल्य । परमप्रकृतेरेवेति । कोशलकाराभ्यां फिञ् , तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ् , तस्य युट् चेति वक्तव्यमित्यर्थः । अणो द्वयचः । अपत्ये फिजिति । शेषपूरणमिदम् । षत्वस्यासिद्धत्वात्सेनान्तोऽयम् । तादण इति । उदीचामिञोपवादोऽयमण् । अस्मादुपसंख्यानाच्छिवादिषु तक्षन्शब्दपाठोऽनार्ष इति गम्यते। वृत्तिकारस्तुतक्षन्शब्दं शिवादिषु पठित्वा 'कारिलक्षणमुदीचामिअमयमा बाधते, रयस्य तु बाधो नेष्यते' इत्याह । तदनुरोधेनास्माभिरपि तत्र तथैव व्याख्यातम् । फले विशेषाभावात् । कौशल्य । परमप्रकृतेरेवायमिति । यदि तु 'वृद्धत्कोसला-' इति व्यङन्तात्कोसलशब्दात् कारिलक्षणण्यन्तात्कारशब्दाच्चायं विधिः स्यात् , तदा यून्येव प्रसज्येतति भावः । छागेति । दगुशब्दस्याप्युपलक्षणमेतत् । फिप्रकरणे 'दगुकोसलकारच्छागवृषाणां युट् चादिष्टस्य' इति वार्तिकात् । श्रादिष्टस्य प्रायन्नादे. शस्वेत्यर्थः । अन्यथा, प्रतिपदोक्ने युटि कृते प्रत्ययादित्वाभावात् कौशल्यायनिरित्यादौ फस्यायनादेशो न स्यात् , युकि कृते तु 'दागव्यायनिः इत्यत्र पोर्गुणः, अन्यत्राल्लोपश्च