________________
प्रकरणम् ३१ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ४७३ धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः । १६३६ धनगणं लब्धा । ( ४-४-८४ ) तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः । १६३७ अन्नाण्णः । ( ४-४-८५ ) श्रन्नं लब्धा श्रन्नः । १६३८ वशं गतः ( ४-४-८६ ) वश्यः परेच्छानुसारी १६३६ पदमस्मिन्दृश्यम् । (४-४-८७) पद्यः कर्दमः । नातिशुष्क इत्यर्थः । १६४० मूलमस्याबर्हि । ( ४-४-८८ ) अभावः श्रधनुः, तस्मिन्सतीत्यर्थः । अर्थाभावे नन्तत्पुरुषः । अर्थाभावे अव्ययीभावेन श्रयं विकल्प्यत इत्युक्तत्वात् । द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुषः करणस्याभावे सतीत्यर्थः । न चेत्तत्रेति । तत्र वेधने धनुः करणं न चेदित्यर्थः । पद्या इति । पादशब्दायति 'पद्यत्यतदर्थे' इति पद्भावः । 'अधनुषा' इति किम् ? धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यन्न भवति । न चासामर्थ्यादेवात्र यन्नेति वाच्यम्, विध्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याविघातात् । अन्यथा औपगवो देवदत्त उपगुनप्तृत्वाद् इत्यादौ
णादिकं न स्यात् । प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषनित्यसापेक्षत्वाच्च इति शब्देन्दुशेखरे विस्तरः । धनगणं लब्धा । धनशब्दाद् गणशब्दाच्च द्वितीया - न्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत श्राह - तुन्नन्तमेतदिति । तथा च 'न लोक -' इति निषेधान्न षष्ठीति भावः । अन्नारणः । लब्धेत्यर्थे द्वितीयान्तादिति शेषः । वशं गतः । वशशब्दाद् द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः । वश्य इति । वशं गत इति विग्रहः । ' वश कान्तौ' । कान्तिरिच्छा । वशनं वशः । 'वशिरण्योरुपसंख्यानम्' इत्यप् । वशम् इच्छां गतः प्राप्तः, इच्छाधीन इत्यर्थः । वशधातुः छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाहपरेच्छानुसारीति । पदमस्मिन्दृश्यम् । प्रथमान्तात्पदशब्दाद् दृश्यत इत्यर्थे यदित्यर्थः । अत्र 'तत्' इति द्वितीयान्तमनुवृत्तं प्रथमया विपरिणम्यते । मूल'यातेति जन्यानवदत्कुमारी' इति । जनीं वहन्तीति जन्यास्तानित्यर्थः । पद्या इति । 'पद्यत्यतदर्थे' इति पद्भावः । अधनुषा किम्, चोरं विध्यति । सम्भाव्यते हि चोरव्यधने धनुषः करणता । यदा तु धनुषेति प्रयुज्यते तदा सापेक्षत्वादेव न भवति । एवं च 'न चेत्तत्र धनुः करणम्' इत्यत्र 'सम्भाव्यते' इति शेषो बोध्यः । तृनन्तमिति । एवं च 'न लोका-' इत्यादिना कृद्योगषष्ट्या निषेधाद् धनगणम् -' इति प्रयोगो निर्बाध इति भावः । वशं गतः । वशनं वश इच्छा | 'वशिररायोरुपसंख्यानम्' इत्यप् । मूलमस्याबर्हि । प्रथमान्तादाबर्हि इत्युपाधिकान्मूलशब्दा