________________
४७२ ]
सिद्धान्तकौमुदी ।
[तद्धितेषु प्राग्घितीय
( ४-४-७६ ) एकधुरां वहति एकधुरीणः, एकधुरः । १६३२ शकटादण् । ( ४-४-८० ) शकटं वहति शाकटो गौः । १६३३ हलसीराट्ठक् । ( ४-४-८१) हलं वहति हालिकः । सैरिकः । १६३४ संज्ञायां जन्याः । ( ४-४-८२ ) जनी वधूः । तां वहन्ति प्रापयन्ति जन्याः 1 १६३५ विध्यत्यधनुषा । ( ४-४-८३ ) द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यात् न चेत्तत्र वहतीत्यर्थः । ' स तु सर्वधुरीणो यो भवत् सर्वधुरावहः' इत्यमरः । एकधराल्लुक् च । एकधुराशब्दाद् द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पत्ते लुगित्यर्थः । एकधुरीणः, एकधुर इति । एकधुरां वहतीत्यर्थः । शकटादण् । द्विती. यान्ताच्छकटशब्दाद् वहतीत्यर्थे अण् स्यादित्यर्थः । यतोऽपवादः । हलसीराट्ठक् । आभ्यां द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः । संज्ञायां जन्याः । जनीशब्दाद् द्वितीयान्ताद् वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थे जनिधसिभ्यामिति जनवातोः इणि 'जनिवध्योश्च' इति वृद्धिप्रतिषेधे 'कृदिकारात् -' इति ङीषि जनीशब्दस्य निष्पत्तेरिति भावः । 'समा स्नुषाजनीवध्वः' इत्यमरः । वहन्तीत्यस्य विवरणं प्रापयन्तीति । वरगृहमिति शेषः । जन्या इति । जामातुर्वयस्या इति शेषः । 'जन्याः स्निग्धा वरस्य ये' इत्यमरः । विध्यत्यधनुषा । 'तद् इति' द्वितीयान्तमनुवर्तते । 'अधनुषा' इति सप्तम्यर्थे तृतीया । धनुषः टाप् । एकधुराल्लुक् च । चात्खः । एवं च प्राकरणिकस्य यतो लुक् खस्य तु विधानसामर्थ्याच्छ्रवणमिति फलितम्, तदाह - एकधुरीण इत्यादि । शाकटो गौरिति । ननु 'तस्येदम्' इत्यणा सिद्धम् । यो हि शकटं वहति शकटस्यासौ भवति । अत्राहुः — आरम्भसामर्थ्यादत्र तदन्तविधिः । तेन द्वे शकटे वहति द्वैशकट इत्यत्र 'द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयो लुङ् न भवति, 'तस्येदम्' इत्यणि तु स्यादेव लुगिति । हलसीरात् । ननु 'तस्येदम्' इत्युपक्रमे 'हलसीराट्ठक्' इति पठितम् । तथा च तेनैव शैषिकेण हालिकः सैरिक इति सिद्धौ किमनेनेति चेत् । सत्यम्, आरम्भसामर्थ्यादत्रापि तदन्तविधिः तेन द्वैहलिको द्वैसीरिक इति भवति, शैषिके ठकि तु प्राग्दीव्यतीयो लुक् स्यात् । संज्ञायां जन्या । जायने अस्यां गर्भ इति व्युत्पत्तिमाश्रित्य आह—जनी वधूरिति । 'जनिघसिभ्यामिण्’। 'जनिवध्योश्च' इति न बृद्धिः ।‘कृदिकारात् -' इति ङीष् । ततोऽनेन सूत्रेण यति जन्या जामातुर्वयस्याः । सा हि विवाहादिषु वधूं जामातृसमीपं प्रापयति । कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुङ्क'जन्या' इति निर्विसर्गः पाठः क्वचिदुपलभ्यते । २ मातुर्वयस्या' इति क्वचित् ।
"
,