________________
प्रकरणम् ३१ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [४७१
अथ तद्धितेषु प्राग्घितीयप्रकरणम् । ३१ ।
१६२६ प्राग्घिताद्यत् । (४-४-७५) 'तस्मै हितम्' (सू १६६५) इत्यतः प्राग्यदधिक्रियते । १६२७ तद्वहति रथयुगप्रासङ्गम् । (४-४-७६) रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे यस्काष्ठमासज्यते स प्रासङ्गः, तं वहति प्रासङ्गयः । १६२८ धुरो यड्ढको (४-४-७७) 'हलि च' (सू ३५४) इति दीचे प्रासे । १६२६ न भकुर्छराम् । (८-२-७६) भस्य कुर्छरोश्चोपधाया दी? न स्यात् । धुर्यः, धौरेयः। १६३० खः सर्वधुरात्। (४-४-७८) सर्वधुरां वहतीति सर्वधुरीणः । १६३१ एकधुराल्लुक्च ।
अथ प्राग्घितीयप्रकरणं निरूप्यते-प्राग्घिताद्यत् । हितशब्दः तद्धटित. सूत्रपरः । तदाह--तस्मै हितमिति । तद्वहति रथ । रथादि वहतीत्यर्थे द्वितीयान्ताद् रथ युग प्रासङ्ग इति त्रयाद् यत्स्यादित्यर्थः । युग्य इति । रथादिवहनकाले अश्वादिस्कन्धेषु तिर्यग् यत् काष्ठमीषत्प्रोतमासज्यते तयुगम् , तद्वहतीत्यर्थः । दमनकाल इति । रथादि वहने सुशिक्षितावश्वौ नियुज्य तत्स्कन्धवात्ययुगे ययुगान्तरमासज्य तस्मिन्नशिक्षिता अश्वादयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः । 'प्रासको ना युगायुगे' इत्यमरः। धुरोयड्ढकौ। धुरशब्दाद् द्वितीयान्ताद् वहतीत्यर्थे यत् ढक् च स्यादित्यर्थः । यड्ढाविति पाठान्तरम् । हलि चेतीति । 'धुर्वी हिंसायाम्' 'भ्राजभास-' इति क्लिप । 'राल्लोपः' इति लोपः। अश्वादिस्कन्धवाह्यप्रदेशो युगावयवो धूः । धुर्शब्दाद् यति 'हलि च' इति दीर्धे प्राप्ते सतीत्यर्थः । न भकुछराम् । वोरुपधाया:-' इत्यत 'उपधायाः' इति 'दीर्घः' इति चानुवर्तते, तदाहभस्येत्यादिना । 'धूर्वहे धुर्यधौरेयधुरीणाः' इत्यमरः। खः सर्वधुरात् । सर्वा धूः सर्वधुरा । 'पूर्वकाल-' इति तत्पुरुषः। 'ऋक्पू:-' इति समासान्तः । 'परवल्लिङ्गम्-' इति स्त्रीत्वाट्टाप् । इह तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । द्वितीयान्तात्सर्वेधुराशब्दाद् वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां
युग्य इति। युगं रथा वहतीत्यर्थः । प्रासङ्ग इति । प्रासज्यते असाविति कर्मणि घञ् । धुरो । 'धुरो ढक् च' इत्येव सुवचम् । न भ । उपधाया इति । 'उपधायां च' इति पूर्वसूत्रादेतल्लभ्यत इति भावः । उपधायाः किम् , प्रतिदीनः । इह नान्तस्य भत्वेऽपीकारस्यानुपधात्वान्निषेधो न प्रवर्तते । खः सर्वधुरात् । सूर्वधुराया इति वक्तव्ये नपुंसकनिर्देशः शब्दखरूपापेक्षया 'बन्धुनि बहुव्रीही इतिवत् । सर्व धुरामिति । 'पूर्वकालैक-' इति समासः । 'ऋक्पूरन्धूः' इति समासान्ते अप्रत्यये