________________
४७० ]
सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीयश्रावसथात् ष्ठत् । (४-४-७४) आवसथे वसति पावसथिकः । पित्त्वान्डीए । श्रावसथिकी।
'प्राकर्षास्पर्पादेर्भस्वादिभ्यः कुसीदसूत्राश्च ।
श्रावसथास्किसरादेः षितः षडेते ठगधिकारे ॥' ( वा २६५५) षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त।
इति तद्धितेषु ठगधिकारप्रकरणम् ।
अत्र व्याख्यानमेव शरणम् । आवसथाष्ठल । 'तत्र' 'वसति' इत्यर्थे आवसथात् सप्तम्यन्तात् 'लित्यर्थः । आवसथं गृहम् । षित्त्वं ङीषर्थम् । तदाह-श्रावसथिकीति । आकर्षादित्यादि । श्लोकवार्तिकमिदम्-'प्राग्वहतेष्ठक्' इत्यादी ठगिति वा ठगिति छेद इति संशयनिवृत्त्यर्थम् 'आकर्षात्ष्टल' इति सूत्रभाष्ये पठि. तम् । तत्र आकर्षादित्यनेन 'आकर्षात्ष्टल्' इति सूत्रं विवक्षितम् । पर्पादिभ्य इत्यनेन 'पर्पादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । भनादिभ्य इत्यनेन 'भस्त्रादिभ्यः छन्' इति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेन 'कुसीददशैकादशात् ठन्ष्टचौ' इति सूत्रं विवक्षितम् । श्रावसथादित्यनेन 'पावसथात् ष्ठल' इति सूत्रं विवक्षितम् । किसरादेरित्यनेन 'किसरादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकारे एतैः सूत्रविहिताः षट् प्रत्ययाः षित इत्यर्थः । ननु 'कुसीद-' इति सूत्रे प्रत्ययद्वयविधानाद् एतत्सूत्रषट्कविहिताः सप्त प्रत्ययाः लभ्यन्त इति षट् षित इति कथमित्यत आह–पडितीति । षडित्यनेन सूत्राभिप्रायं षट्वं विवक्षितमिति भावः।
इति तद्धितेषु प्राग्वहतीयप्रकरणम् ॥
निकटे वसन् भिक्षार्थमेव प्रामे प्रविशति, न तु तत्र वसतीति भावः । श्रावसथात् । लकार. खरार्थः । श्रावसन्स्यस्मिन्नित्यावसथः । 'उपसर्गे वसेः' इत्यथप्रत्ययः । कुसीदसूत्रादिति । 'कुसीददशैकादशात्-' इति सूत्रोपात्ताभ्यां प्रकृतिभ्यामित्यर्थः। इह 'नौ यचष्ठन्' इत्यत्रेव येषां षकारः साहितिक इति सम्भाव्यते तेषामेव गणने ठलादेः षित्त्वमनार्षमिति भ्रमः स्यादतः श्लोकवार्तिककारः पित्प्रत्ययान्सर्वानपि पर्यजीगणत् ।
इति तत्त्वबोधिन्या ठगधिकारप्रकरणम् ।