________________
प्रकरणम् ३० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६६ दनिकः, मासकः, प्रोदनिकः । १६१६ भक्तादणन्यतरस्याम् । (४-४-६८) पक्ष ठक् । भक्कममै नियतं दीयते भात्रः, भाक्तिकः । १६२० तत्र नियुक्तः। (४-४-६६)श्राकरे नियुक्त प्राकरिकः। १६२१ अगारान्ताहन् । (४-४-७०) देवागारे नियुक्तो देवागारिकः । १६२२ अध्यायिन्यदेशकालात् । (४-४-७१) निषिद्धदेशकालवाचकाढक्स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः । १६२३ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति । (४-४-७२) 'तत्र' इत्येव । वंशकठिने व्यवहरति वांश. कठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनः । तस्मिन्देशे या क्रिया यथा अनुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः । १६२४ निकटे वसति । (४-४-७३ ) नैकटिको भिक्षुः । १६२५ तरला च सा' इत्यमरः। टित्त्वं डीबर्थम् , तदाह-श्राणिकीति । संघात. विगृहीतार्थमिति । ठकैव सिद्धे ओदनिक इत्यत्र आदिवृद्धयभावार्थ प्रत्ययान्तरविधानमिति भावः । भक्कादणन्यतरस्याम् । तदस्मै दीयते नियतमित्येव । तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताक् स्यादित्यर्थः। नियुक्तः अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । प्राकरिक इति । आकरो रत्नााद्भवस्थानम् । अगारान्ताट्ठन् । तत्र नियुक्त इत्येव । नित्त्वानादिवृद्धिः । तदाहदेवागारिक इति । अध्यायिन्यदेशकालात् । निषिद्धेति । अदेशकाले. त्यत्र 'न' निषिद्धे वर्तत इति भावः । श्माशानिकः। चातुर्देशिक इति । देशकालभिन्नादिति व्याख्याने तु इह न स्यादिति भावः। कठिनान्तप्रस्तार । अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यः ठगित्यर्थः । वंशकठिन. शब्दं विवृणोति-चंशा इति । व्यवहरणम् उचितक्रिया, तदाह-यस्मिन्देश इति । प्रस्तारसंस्थानशब्दौ अवयवसंनिवेशपय यो। निकटे वसति । अस्मिनर्थे सप्तम्यन्तान्निकटशब्दाहगित्यर्थः । नैकटिको भिनुरिति । 'ग्रामात्क्रोशे भिक्षुणा वस्तव्यम्' इति शास्त्रमुल्लङ्घय निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । च सा' इत्यमरः । टिठनिति । इकार उच्चारणार्थः । टो डीबर्थः। सङ्घातविगृही. तार्थमिति । ओदनिक इत्यत्र हि वृद्धिनिवारणाय टिठन्नारब्धः। अन्यथा लाघवाटुञमेव ब्रूयादिति भावः । आकरिक इति । 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । अध्यायिन्य । अदेशकालात् किम् , काश्यामधीते, पूर्वाह्ने अधीते । कठिनान्त । प्रस्तारसंस्थानशब्दौ संनिवेशपर्यायाविति बहवः । प्रस्तारो यज्ञः । 'प्रेनो यज्ञे' इति घञ् । संस्थानं संनिवेश इत्येके । नैकटिको भिक्षुरिति । संन्यासी हि ग्रामस्य