________________
४६८ ]
सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीयया क्रिया सा चेत्प्रथमान्तस्यार्थः । एकमन्यद् वृत्तमस्य ऐकान्यिकः । यस्याध्ययने प्रवृसस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातम् सः । १६१५ बह्वपूर्वपदाहच् । (४-४-६४ ) प्राग्विषये। द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः। १६१६ हितं भक्षाः । (४-४-६५) अपूपभक्षणं हितमस्मै आपूपिकः । १६१७ तदस्मै दीयते नियतम् । (४-४-६६) अग्रभोजनं नियतं दीयते अस्मै अाग्रभोजनिकः । १६१८ श्राणामांसौदनाठिन् । (४-४-६७ ) श्राणा नियतं दीयतेऽस्मै श्राणिकः. श्राणिकी । मांसौदनग्रहणं सङ्घातविगृहीतार्थम् । मांसौ. तदित्यननुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रथमानिर्दिष्टत्वात् तत एव प्रत्ययः स्यात् , नतु तद्विशेष्यवाचकात् , तस्य प्रथमानिर्दिष्टत्वाभावादित्यभिप्रेत्योदाहरति-एकमन्यवृत्तमस्य ऐकान्यिक इति । 'तद्धितार्थ-' इति समासे एकान्यशब्दागिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः । बह्वपूर्वपदाच् । 'तदस्य कर्माध्ययने वृत्तम्' इत्यनुवर्तते । तदाह-प्राग्विषय इति। द्वादशान्यिक इति । 'तद्धितार्थ-' इति समासः । एवं त्रयोदशान्यिकः । चित्त्वान्नादिवृद्धिः। हितं भताः। 'तदस्य' इत्यनुवृत्तम् । तत्र षष्ठी चतुर्थ्या विपरिणम्यते, हितयोगात् । तद् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्याद् यद् हितं भक्षाश्चेत् ते स्युरित्यर्थः । संस्कृतं भक्षाः इतिवद्याख्येयम् । अपूपभक्षणमिति । अनेन अपूपशब्दः अपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थे तु न ठक् , अभिधानस्वाभाव्यादिति भावः । तदस्मै दीयते नियतम् । अस्मिन्न प्रथमान्ताट्ठगित्यर्थः । नियुक्तमिति पाठान्तरम्, नियतमित्यर्थः । श्राणमांस । तदस्मै दीयते नियतमित्येव । श्राणा यवागूः । 'यवागूरुष्णिका श्राणा विलेपी 'तदस्य' इत्यनुवर्तते, ठगिहाधिक्रियत एव तदाह-प्रथमान्तादित्यादि । ऐका. यिक इति । एकमन्यदिति विगृह्य 'तद्धितार्थ-' इति समाराः, ततष्ठक् । एवं द्वैयन्यिकः, त्रैयन्यिक इत्युदाहार्यम् । इह तु वृद्धि बाधित्वा 'न यवान्याम्-' इत्यैच् । हितं भताः । 'अस्य' इति प्रकृतमपीह हितयोगाच्चतुर्थ्या विपरिगम्यते, 'तदस्मै-' इत्यस्यापकर्षो वेत्याशयेनाह-अपूपभक्षणं हितमस्मा इति । अपूपशब्दस्तद् भक्षणे लाक्षणिक इति भावः । श्राणा। 'यवागूरुष्णिका श्राणा विलेपी तरला
१ इह 'ठच्' इति पाठो बालमनोरमासंमतः । काशिक यामपि तथैवोप. लभ्यते । कौमुदीपुस्तकान्तरेषु तु 'ठञ्' इति पाठ उपलभ्यते, मुद्रितेष्वष्टाध्यायीपुस्तकेष्वपि प्रायेण 'ठञ्' इत्येवोपलभ्यते ।