________________
प्रकरणम् ३०] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६७ गुरोर्दोषाणामावरणं छत्त्रम्, तच्छीलमस्य छात्रः । १६१३ कार्मस्ताच्छील्ये। (६-४-१७२) कार्म इति ताच्छील्ये णे टिलोपो निपात्यते। कर्मशीलः कार्मः । 'नस्तद्धिते' (सू ६७६ ) इत्येव सिद्धे 'प्रएकार्य ताच्छीलिके णेऽपि । तेन चौरी, तापसी इत्यादि सिद्धम् । ताच्छील्ये किम्-कार्मणः । १६१४ कर्माध्ययने वृत्तम् । (४-४-६३) प्रथमान्तात्षष्ट्यर्थे ठक्स्यादध्ययने वृत्ता स्तद्भक्षणे लाक्षणिक इति भावः । छत्त्रादिभ्यो णः। एभ्यः प्रथमान्तेभ्यः अस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः। छत्त्रं शीलमस्य छात्रः, इत्युदाहरणं वक्ष्यति । तत्र छत्त्रस्य शीलत्वानुपपत्तेः छत्रपदं गुरुदोषावरणे गौणमित्याह-गुरोरिति । शीलमित्यर्थे छत्त्रादित्वाद् गा प्रत्यये कृते । कार्मस्ता. च्छील्ये । तत् शीलं यस्य स तच्छीलः, तस्य भावः ताच्छील्यम् । तस्मिन्वोच्ये कार्म इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् , तदाह-टिलोपो निपात्यत इति । णेऽपीत्यनन्तरम् इति ज्ञापनार्थमिदमिति शेषः । अत्र टिलोपविधिर्हि 'अन्' इति प्रकृतिभावनिवृत्त्यर्थः । ततश्च अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादणकार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छन्त्रादित्वाएणप्रत्यये सति तदन्ताभ्यामणन्तकार्ये डीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मण इति । तस्येदम्' इत्यणि 'कार्मस्ताच्छील्ये' इस्यस्याप्रवृत्त्या 'अन्' इति प्रकृतिभावान टिलोप इति भावः । कर्माध्ययने वृत्तम् । 'तदस्य पण्यम्' इत्यतः 'तदस्य' इत्यनुवर्तते । 'तदस्य कर्माध्ययने वृत्तम्' इत्यर्थनिर्देशः। तत्र तदित्यनेन विशेष्येण कर्म वृत्तमित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्म प्रति विशेष्यसमर्पकं तदिति प्रथमोचारितम् । ततश्च अस्य अध्ययनविषये तत्कर्म वृत्तमित्यर्थे तच्छन्दगम्यविशेष्यवाचकात् प्रथमान्ताद्वक् स्यादित्यर्थः । तदाह-प्रथमान्तादिति । वृत्तं कर्म प्रति विशेष्यसमर्पकादिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति । अनेन कर्मशब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति । अनेन कर्म वृत्तमित्येतत् तदित्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । स्त्रीत्वे प्रमाणानुगमात्स्त्रीवाचकत्वे चोक्तकोशविरोधादिति दिक् । छत्त्रादिभ्यो णः । 'छत्त्रादिभ्योऽण' इत्येव सुवचमिति 'कार्मस्ताच्छील्ये इति सूत्रे कैयटः । ताच्छील्ये ण इति । कर्मन्शब्दस्य छत्त्रादित्वादिति भावः। चौरीत्यादि । चुराशीलमस्याः, तपः शीलमस्या इति विग्रहे णप्रत्यये सति तदन्तान्डी सिध्यतीत्यर्थः। कर्माध्ययने ।