________________
MERE RATANTRE
४६६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीय. शिल्पमस्य मार्दङ्गिकः। १६०६मड्डुकभर्भरादणन्यतरस्याम् । (४-४-५६) मडडुकवादनं शिल्पमस्य माड्डुकः, माड्डुकिकः । मार्मरः, झाझरिकः । १६०७ प्रहरणम् । (४-४-५७) 'तदस्य' इत्येव । सिः प्रहरणमस्य पासिकः । धानुष्कः। १६०८ परश्वधाहश्च । (४-४-५८) पारश्वधिकः । १६०६ शक्तियष्टयोरीकक् । (४-४-५६) शाक्नीकः । याष्टीकः । १६१० अस्ति नास्ति दिष्टं मतिः। (४-४-६०) 'तद' इत्येव । अस्ति परलोक इत्येवं मतिर्यस्य स प्राखिकः । नास्तीति मतिर्य य स नास्तिकः । दिष्टमिति मतिर्यस्य स देष्टिकः । १६११ शीलम् । (४-४-६१) अपूपभक्षणं शीलमस्य आपूपिकः । १६१२ छत्त्रादिभ्यो णः। (४-४-६२) मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः । मड्डुकभर्भरात् । तदस्य शिल्पम्' इत्येव । पक्षे ठक् । मड्डुकमर्भरौ वाद्यविशेषौ। प्रहरणम् । 'तदस्य' इत्येव । प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः । प्रह्रियतेऽनेनेति महरणम् , आयुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः। उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षः । परश्वधाहने च । 'तदस्य प्रहरणम्' इत्येव । चात् ठक् । 'परशुश्च परश्वधः' इत्यमरः । क्रियष्टयोरीका । शक्लियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे । कक् स्यादित्यर्थः । अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरन्यास्ति, नास्तीति मतिरस्यास्ति, दिष्टमिति मतिरस्यास्तीत्यर्थेषु क्रमेण अस्तीत्यस्म द् नास्तीत्यस्माद् दिष्टमित्यस्माच्च प्रथमान्ताहगित्यर्थः। अस्तिनास्तिशब्दौ निपातौ। यद्वा वचनादेव अख्यातात्प्रत्ययः । 'दैवं दिष्टम्-' इत्यमरः । शीलम् । अस्येत्यर्थे शीलवाचिनः प्रथमान्तागित्यर्थः। शीलं स्वभावः । अपूपभक्षणमिति । अपूपशब्दमार्दङ्गिक इति । मृदङ्गशब्देन मृदङ्गवादनं लक्ष्यते । मुख्यार्थे तु प्रयोगो न भवति, अनभिधानादिति भावः । शिल्पं कौशलम् । तच्च मृदङ्गगदनविपयकम् , तेन मृदङ्गवादनविषयक मृदङ्गशब्दस्य लक्षणेति निष्कर्षः । प्रहरणम् । प्रह्रियते अनेनेति प्रहरणमायुधम् । धानुष्क इति । 'इसुसुक्तान्ताव:' 'इणः षः' इति विसर्गस्य षः । परश्वधा?ञ् । चाटुक् । 'द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः'। परलोक इति । एतच्चाभिधानशक्तिस्वाभाव्याल्लभ्यते। आस्तिक इति । अस्तिनास्तिशब्दौ निपाती। यद्वा वचनसामर्थ्यादस्तीत्याख्यातात् , नास्तीति निपाताख्यातसमुदायाच्च प्रत्ययः । दिष्टमिति । 'दैवं दिष्टं भागधेयम्' इत्यमरः । 'नालम्बते दैष्टिकताम्' इति माघः । 'प्रमाणानुगा मतिर्दिष्टा' इति प्राचोविस्तूपेक्ष्या । दिष्टशब्दस्य