________________
प्रकरणम् ३० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४६५ धर्म्यं माहिषम् । याजमानम् । १५६६ ऋतोऽञ् । ( ४-४-४६ ) यातुर्धर्म्य यात्रम् । 'नराच्चेति वक्तव्यम्' ( वा २३६७ ) । नरस्य धर्म्या नारी । 'विशसितुरिड्लोपश्वाञ्च वक्रव्यः' ( वा २३६८ ) । विशसितुर्धर्म्यं वैशस्वम् । 'विभाजयितुणिलोपश्चाञ्च वाच्यः' ( वा २३६६ ) । विभाजयितुर्धर्म्य वैभाजित्रम् । १६०० अवक्रयः । (४-४-५० ) षष्ठयन्ताट्ठक्स्यादवक्रयेऽर्थे । प्रापणस्यावक्रयः श्रापणिकः । राजग्राह्यं द्रव्यमवक्रयः । १६०१ तदस्य पण्यम् । ( ४-४-५१) अपूपाः पण्यमस्य आपूपिकः । १६०२ लवणाट्ठञ् । ( ४-४-५२ ) लावणिकः । १६०३ किसरादिभ्यः ष्ठन् । ( ४-४-५३ ) किसरं पययमस्य किसरिकः । पिवान्ङीष् । किसरिकी । किसर, उशीर, नलद इत्यादिकिसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः । १९६०४ शलालुनोऽन्यतरस्याम् । ( ४-४-५४ ) ष्ठन् स्यात् पते ठक् । शलालुकः, शलालकी । शाल।लुकः, शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः । १६०५ शिल्पम् । ( ४-४-५५ ) मृदङ्गवादनं धर्म्यमित्यर्थे षष्ठ्यन्तादृगित्यर्थः । अण् महिष्यादिभ्यः । षष्ठ्यन्तेभ्यो धर्म्य - मित्यर्थे इति शेषः । ऋतोऽञ् । ऋदन्तात्षष्ठयन्ताद् धर्म्यमित्यर्थे श्रमित्यर्थः । नारीति । अनन्तत्वाद् ङीबिति भावः । इड्लोप इति । इटो लोप इत्यर्थः । वैशस्त्रमिति । विशसितृशब्दादमि इटो लोपे ऋकारस्य यणि आदिवृद्धिः । वैभाजित्रमिति । विभाजयितृशब्दादनि णिलोपः । श्रवक्रयः । 'तस्य' इत्यनुवर्तते, तदाह – षष्ठ्यन्तादिति । तदस्य पण्यम् । श्रस्मिन्नर्थे प्रथमान्तात् ठगित्यर्थः । विक्रेतव्यं द्रव्यं पण्यम् । लवणाट्ठञ् । 'तदस्य पण्यम्' इत्येव । लावणिक इति । लवणमस्य पण्यमित्यर्थः । किसरादिभ्यः छन् । ‘तदस्य पण्यम्' इत्येव । ष्ठन्निति च्छेदः, तदाह - षित्त्वान्ङीषिति । शलालुनोऽन्यतरस्याम् । ष्ठन्निति शेषः । ' तदस्य पण्यम्' इत्येव । शलालुक इति । शलालुः पण्यमस्येति विग्रहः । उकः परत्वाठ्ठस्य कः । वित्त्वस्य फलमाह - शलालुकीति । शिल्पम् । तदस्य शिल्पमित्यर्थे प्रथमान्तात् ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु मार्दङ्गिक इत्युदाहरण वक्ष्यति, तत्र मृदङ्ग शिल्पमिति कथं विग्रहः, भृदङ्गस्य शिल्पत्वासंभवात्, तत्राह - मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चतुः संयम्य गच्छतीति भावः । धर्म्यमिति । धर्मादनपेतं धर्म्यम् । 'धर्मपथ्यर्थन्यायादनपेते' इति यत । अवक्रयः । श्रवक्रीयते अनेनेति करणे 'एरव्' । पण्यमिति । पणितव्येऽर्थे 'अवद्य राय -' इति यदन्तो निपातितः । शलालुक इति । 'इसुसुक्तान्तात्कः' । ठक्पत्ते त्वादिवृद्धिः । शालालुकः ।