________________
४६४ ]
सिद्धान्तकौमुदी । [तद्धितेषु प्राग्वहतीय
समवायान्समवैति । ( ४-४-४३ ) सामवायिकः । सामूहिकः । १५६४ परिषदो एयः । ( ४-४-४४ ) परिषदं समवैति पारिषद्यः । १५६५ सेनाया वा । ( ४-४-४५ ) ययः स्यात् । पच ठक् । सैन्याः, सैनिकाः । १५६६ संज्ञायां ललाटकुक्कुट्यौ पश्यति । ( ४-४-४६ ) ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पाताईः स्वल्पदेशो लक्ष्यते । atraटिको मितुः । १५६७ तस्य धर्म्यम् । ( ४-४-४७ ) आपणस्य धर्म्यमापणिकम् । १५६८ अण् महिष्यादिभ्यः । ( ४-४-४८ ) महिष्या ठंश्च । प्रतिप्रथमित्यव्ययीभावाद् एतीत्यर्थे ठन् ठक् च स्यादित्यवः । प्रतिपथमिति 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । 'ऋक्पूः -' इति समासान्तः । समवायान् समवैति । द्वितीयान्तेभ्यः समवायवाचिशब्देभ्यः समर्वतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । समवैति मेलयतीत्यर्थः । परिषदो रायः । द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो राय इत्यर्थः । सेनाया वा । ण्यः स्यादिति । शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे रायो वा स्यादित्यर्थः । सैन्याः, सैनिका इति । सेनां मेलयन्तीत्यर्थः । संज्ञायाम् । ललाटकुक्कुटी शब्दाभ्यों पश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः । संज्ञा रूढिः, न त्वाधुनिकः संकेतः । लालाटिकः सेवक इति । दूरे स्थित्वा प्रभोललाटं पश्यति, नतु कार्ये प्रवर्तत इत्यर्थः । ' तालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः' इत्यमरः । कौक्कुटिक इति । कुक्कुटीपतनार्हदेशं पश्यतीत्यर्थः । तस्य धर्म्यम् । धर्मादनपेतं धर्म्यम्, आचरितुं योग्यमित्यर्थः । अव्ययीभावः । 'ऋक्पू:-' इति समासान्तः । समवायान् । समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक् स्यात्समवैतीत्यर्थे । इह समवपूर्वस्येणोऽर्थः प्रविश्यैकदशीभवनम् । तत्र गुणभूतप्रवेशापेक्षया समवायानिति द्वितीयानिर्देशः । विशेष्यापेक्षया तु लोके सप्तमी प्रायेण प्रयुज्यते 'कुरुक्षेत्रे समवेताः' इति यथा । 'एत्येधति -' इति वृद्धिरिह न भवति, एजादित्वाभावात् । सैन्याः, सैनिका इति । द्वितीयान्ताण्ठौ । यत्तु, 'सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते' इति निघण्टुषूक्तं तत्फलितार्थकथनपरं बोध्यम् । संज्ञायाम । ललाटकुक्कुटीशब्दाभ्यां द्वितीया । ताभ्यां पश्यतीत्यर्थे ठक् स्यात् । सम्यग्ज्ञानं संज्ञा प्रसिद्धिस्तस्याम्, प्रसिद्धिविषयभूतेऽर्थे इत्यर्थः । लालाटिक इति । दूरे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः । 'लालाटिकः प्रनोर्भालदर्शी कार्याक्षमश्च यः । कौक्कटिको भिक्षुरिति । संन्यासी १ एतद द्वितीयान्ताभ्यामित्यधिकः पाठः क. ख. ।