________________
प्रकरणम् ३०] बालमनोरमा तत्त्वबोधिनीसंहिता। [४६३ धावति । (४-४-३७) दण्डाकारो माथः पन्था दण्डमाथः । दण्डमार्थ धावति दाण्डमाथिकः । पादविकः । भानुपदिकः । १५८८ आक्रन्दाटुञ् च । (४-४-३८) अस्माट्ठम्स्यात्, चाक् धावतीत्यर्थे । आक्रन्दं दु:खिना रोदनस्थानं धावति प्राक्रन्दिकः । १५८६ पदोत्तरपदं गृह्णाति । (४-४-३६) पूर्वपदं गृहाति पौर्वपदिकः। श्रौत्तरपदिकः । १५६० प्रतिकण्ठार्थललामं च । (४-४-४०) एभ्यो गृहास्यर्थे ठक्स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः ।
आर्थिकः । लालामिकः । १५६१ धर्म चरति । (४-४-४१) धार्मिकः । 'अधर्माचेति वक्तव्यम्' (वा २६६६)। आधर्मिकः । १५९२ प्रतिपथमेति ठंश्च । (४-४-४२) प्रतिपथमेति प्रतिपथिकः, प्रातिपथिकः । १५६३ वृत्तिकृतः । इदमेवाभिप्रेत्य विग्रहं दर्शयति-परिपन्थं तिष्ठतीति । माथोत्तर । माथोत्तरपद, पदवी, अनुपद एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे ठगित्यर्थः । माथपदं व्याचष्टे-माथः पन्था इति । मथ्यते गन्तुंभिराहन्यते इति व्युत्पत्तेरिति भावः। दण्डमाथ इति । शाकपार्थिवादिः । पन्थानं धावतीति धावतेर्गत्यर्थत्वात् सकर्मकत्वम् । पादविक इति । पदवी धावतीति विग्रहः । आनुपदिक इति । अनुपदं धावतीति विग्रहः । प्राक्रन्दाञ् च । अस्मादिति । श्राक्रन्दशब्दाद् द्वितीयान्तादित्यर्थः । आकन्दन्ति अस्मिन्नित्याक्रन्दः, तदाह-आक्रन्दो दुःखिनां रोदनस्थानमिति । पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तस्माद् द्वितीयान्ताद् गृह्णातीत्यर्थे ठक् स्यादित्यर्थः । प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम इत्येभ्य इत्यर्थः । आर्थिक इति । अर्थ गृह्णातीत्यर्थः । लालामिक इति । ललाम चिह्न तद् गृह्णातीत्यर्थः । 'लिङ्गं ललामं च ललाम च' इत्यमरः। धर्म चरति । चरतीत्यर्थे द्वितीयान्ताद् धर्मशब्दागित्यर्थः । अधर्माश्चेतीति । 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तदन्ताग्रहणादप्राप्त प्रारम्भः। प्रतिपथमेति तीत्याह । तिष्ठति हन्ति चेति । माथ इति । मथ्यते गन्तृभिरिति माथः । 'मथे विलोडने' कर्मणि घञ् । पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तत्पदोत्तरपदम् । पदान्तमिति तु नोक्तम् , बहुच्पूर्वान्मा भूदिति । प्रतिकण्ठमिति । कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः, 'लक्षणेनाभिप्रती अभिमुख्ये' इत्यनेन वा । यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्येह न ग्रहणं व्याख्यानादित्याहुः। धर्म चरति । चरतिरिहासेवायां न त्वनुष्ठानमात्रे । तेन दैववशाद्धर्मे प्रवृत्तो दुर्वृत्तो धार्मिक इति नोच्यते । आसेवा हि स्वारसिकी प्रवृत्तिः । एवं दैववशादधर्मे प्रवृत्तः यः सवृत्त आधर्मिक इति नोच्यते। प्रतिपथमिति । वीप्सायामाभिमुख्ये वा