________________
४६२ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीय'स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम्' (वा ५२३) । 'मत्स्ययर्यायेषु मीनस्यैव' । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः। १५८६ परिपन्थं च तिष्ठति । (४-४-३६) अस्माद् द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक्स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकचौरः । निपातनात् पन्थादेशः । परिपन्थं हन्ति पारिपन्थिकः । १५८७ माथोनरपदव्यनुपदं इति विश्वः । इह यथायोग्यमन्वयः । पक्षिमत्स्यमृगान्हन्ति । अस्मिभर्थे पक्ष्यादिशब्देभ्यो द्वितीयान्तेभ्यः ठगित्यर्थः । स्वरूपस्येति । पक्षिमत्स्यमृगशब्दैः तत्तत्स्वरूपाणां तत्तत्पर्यायाणां तद्विशेषवाचिनां च ग्रह णमित्यर्थः, 'स्वं रूपम्-' इति सूत्रभाष्ये तथोक्वेरिति भावः । भीनस्यैवेति । मत यपर्यायेषु मीनस्यैव ग्रहणम् , न त्वनिमिषादिशब्दानामित्यर्थः । इदमपि 'स्वं रूपम्-' इत्यत्र भाष्ये स्थितम् । पाक्षिक इति । स्वरूपस्योदाहरणम् । शाकुनिक इति तु पक्षिपर्यायस्य । मायूरिक इति । पक्षिविशेषस्य । तथा मात्स्यिकः, मैनिकः, शाकुलिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । तथा मार्गिकः, हारिणिकः, सारङ्गिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । परिपन्थं च तिष्ठति अस्मादिति । परिपन्थशब्दादित्यर्थः । चकाराद् ‘हन्ति' इत्यनुकृ यते । तदाहतिष्ठति हन्ति चेति । पन्थानं वर्जयित्वेति । एतेन 'अपपी वर्जने' इति परेः कर्मप्रवचनीयत्वे 'पञ्चम्यपाङ्परिभिः' इति पञ्चम्याम् 'अपपरिबहिरञ्चवः पञ्चम्या' इति अव्ययीभावसमासः सूचितः। व्याप्य वेति । एतेन सर्वतःश दपर्यायस्य परे परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम् । अव्ययीभावः प्रादिसमासो वेत्यपि बोध्यम् । उभयथापि क्रियाविशेषणत्वाद् द्वितीयान्तत्वम् । निपातनात् पन्थादेश इति । नेदं प्रत्ययसंनियोगेन निपातनम् । किंतु ततोऽन्यत्रापि परिपन्थशब्दोऽस्ति इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वाद्यभाण्डवाचीह दर्दुरशब्दः । मात्स्यिक इति । 'मत्स्यस्य ड्याम्' इति परिगणनात् 'सूर्यतिष्या-' इति यलोपाभावः । हारिणिक इति । नन्विदं पर्यायस्योदाहरणं न भवति हरिणस्य मृगविशेषत्वात्तथा चात्र पर्यायस्योदाहरणं किमिति न प्रदर्शितमिति चेत् । अत्राहुः-आरण्यकचतुष्पात्सु हरिणे च मृगशब्दो वर्तते । यदा हरिणवाची मृगशब्दः, तदा मृगपर्यायस्योदाहरणं भवत्येवेति । परिपन्थं च । परिमुखवदयमव्ययीभावस्तत्पुरुषो वा क्रियाविषयत्वात्तिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वमस्त्येवेत्याह । द्वितीयान्तादिति । चकारो भिन्नक्रमः प्रत्य पार्थ समुच्चिनो