________________
प्रकरणम् ३० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६१ कुसीदिकः, कुसीदिकी । एकादशार्थत्वादेकादश, ते च ते वस्तुतो दश चेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते, दशैकादशिकः, दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः । १५८२ उञ्छति । (४-४-३२) बदराण्युन्छति बादरिकः । १५८३ रक्षति । (४-४-३३) समाज रक्षति सामाजिकः । १५८४ शब्ददर्दुरं करोति । (४-४-३४) शब्दं करोति शाब्दिकः । दार्दुरिकः । १५८५ पक्षिमत्स्यमृगान्हन्ति । (४-४-३५) ङीषर्थमित्याह-कुसीदिकीति । नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ठप्रकृति दशैकादशशब्दं व्युत्पादयति—एकादशार्थत्वादित्यादिना । यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्का ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्का एकादशार्थत्वाद् एकादशशब्देन उपचर्यन्ते । ततश्च एकादश च ते दश चेति कर्मधारये 'संख्याया अल्पीयस्याः' इति दशनशब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशा इति रूपमित्यर्थः । दशैकादशिक इति । एकादश निष्कानधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति-दशैकाद. शान् प्रयच्छतीति । इहापीति । विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणदातैव तद्धितार्थः प्रधानभूत इत्यर्थः । उच्छति । 'तत्' इति द्वितीयान्तमनुवर्तते । उञ्छतीत्यर्थे द्वितायान्ता?गित्यर्थः । भूम्यां निपतितस्य व्रीह्यादेः कणश आदानमुञ्छः। रक्षति । अस्मिन्नर्थे द्वितीयान्ताहगित्यर्थः । शब्ददर्दुरं करोति । शब्दं करोति द१रं करोतीति विग्रहे द्वितीयान्ताहगित्यर्थः । इह शब्दविषये प्रकृतिप्रत्ययविभागपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात् तेनेह न-शब्दं करोति खरः । दार्दुरिक इति । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुरम् ।' स्वीकारात् । अत्राहुः-निरङ्कशाः कवय इति। गर्यमिति किम् , द्विगुणं त्रिगुणं वा वृद्धि प्रयच्छत्यधमर्ण इत्यर्थे द्वैगुणिक इत्यादि माभूत् । निपात्यत इति । अतएव व्याख्यातृप्रयोगोऽप्युपपद्यत इत्याशयेनोदाहरति-दशैकादशानीति । 'संख्याया अल्पीयस्याः' इति पूर्वनिपातः । उत्तमर्ण एवेति । दश दत्त्वा एकादश गृह्णातीति तस्यैव गह्यत्वादिति भावः । उञ्छति । भूमौ पतितस्यैकैकस्योपादानमुञ्छः। सामाजिक इति । समजन्ति अस्मिन्निति समाजः समूहः । शब्दं करोतीति । प्रकृतिप्रत्ययविभागेन व्युत्पादयतीत्यर्थः । अभिधानखाभाव्याद् व्युत्पादन एवायं प्रत्ययः । नेह शब्दं करोति बर्बरः खरो वा। दार्दुरिक इति । कुलालः ।