________________
४७४ ]
सिद्धान्तकौमुदी |
[तांतेषु प्राग्घितीय
श्रबर्हणमाबर्ह उत्पाटनम्, तदस्यास्तीत्या बर्हि, मूलमाबर्हि येषां ते मूल्या मुद्गाः । १६४१ संज्ञायां धेनुष्या ( ४-४-८९ ) धेनुशब्दस्य युगागमो यप्रत्ययश्च स्वार्थे निपात्यते, संज्ञायाम् । 'धेनुष्या बन्धके स्थिता' । १६४२ गृहपतिना संयुक्ते यः । (४-४-६० ) गृहपतिर्यजमानः तेन संयुक्तो गार्हपत्योऽग्निः । १६४३ नैवयोधर्मविषमूलमूलसीता तुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमित संमितेषु । ( ४-४-६१ ) नावा तार्य नाव्यम् । वयसा तुल्यो मस्या | बर्हणमिति । उत्पाटनमित्यर्थः । उपसर्गवशाद् 'हू उद्यमने' इति धातोरुत्पाटने वृत्तिः । मूल्या मुद्रा इति । मूलत उत्पाटनीया इत्यर्थः । संज्ञायां धेनुष्या । यप्रत्ययश्चेति । यति तु तित्स्वरः स्यादेति भावः । धेनुयेति । या धेनुर्दोहनार्थमुत्तमर्णाय धमर्णेन दीयते तस्या इवं संज्ञा, तदाहबन्धके स्थिति | अमर वाक्यमिदम् । संज्ञायामित्यापाद रिसमाप्तेरधिकारः । संज्ञा हि रूढिविवक्षिता । गृहपतिना । श्रस्मिन्नर्थे गृहपतिशब्दात् तृतीयान्ताद् ञ्यः स्यादित्यर्थः । गार्हपत्योऽग्निरिति । श्रग्निविशेष इत्यर्थः । तत्र पत्नीसंयाजेषु श्रग्निहोत्रे च गृहपतिदेवताकहोमस्य क्रियमाणत्वा गृहपतियोगः । यद्यपि देवसूहविःषु 'अमये गृहपतये पुरोडाशमष्टाकपालं निर्वपति' इति हविर्होम हवनीये क्रियते, तथापि संज्ञाधिकारादाहवनीये नास्य प्रयोगः । नौवयोधर्म । नौ, वयस्, धर्म, विष, मूल, मूल, सीता, तुला एभ्योऽष्टभ्यः क्रमात् तार्थे, तुल्ये, प्राप्ये, वध्ये, आनाम्ये, समे, समिते संमिते चार्थे यत्स्यादित्यर्थः । तृतीयान्तेभ्य इत्यर्थाद् गम्यते । तार्यादियोगे करणे कर्तरि हेतौ तुल्यादियोगे च तस्या एव संभवात् । अत्र मूलशब्दयोर्यथासंख्यप्रवृत्तये नेकशेषः । अन्यथा दस्येति षष्ठयर्थे यत्स्यात् । आवई इति । 'बृहू उद्यमने' दन्त्योष्ट्यादिरयम्, न तु पवर्गादिः।‘उद्घृह रक्षः सहमूलमिन्द्र' इत्यादिप्रयोगदर्शनात् । मूल्या मुद्द्रा इति । मूलोत्पाटनं विना संग्रहीतुमशक्याः, मध्यतो लूयमानेषु कोशस्था प्रपि यस्यामवस्थायां पतेयुस्त! मवस्थां प्राप्ताः । सुष्ठु शुष्का इति यावत् । यप्रत्यय इति । तेन धेनुष्याशब्दोऽन्त उदात्तः । यति तु तित्स्वरः स्यादिति भावः । संज्ञायामिति । ऋणप्रत्यगाय या धेनुर्दोहनार्थमुत्तमर्णाय दीयते तस्याः संज्ञेयम् । गार्हपत्य इति । 'गृहपतिना -' इति निर्देशादेव तृतीयान्तात्प्रत्ययः । 'संज्ञायाम्' इत्यनुवृत्तेराहवनीयादौ नातिप्रसङ्गः । नौवयोधर्म | नावादिभ्योऽष्टभ्यो यथासंख्यं तार्यादिष्वष्टस्वर्थेषु यत्स्यात् । इह तार्यादियोगे यथासम्भवं करणे कर्तरि हेतौ तुल्यार्थयोगे च तृतीया भवतीति सैवेह समर्थविभक्तिरर्थालभ्यते । अत्र प्रथमं मूलान्तानां पञ्चानां द्वन्द्वं कृत्वा