________________
प्रकरणम् ३१ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ४७५
1
वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेनानाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया सम्मितं तुल्यम् । १६४४ धर्मपथ्यर्थन्यायादनपेते । ( ४-४ - ६२ ) धर्मादनपेतं धर्म्यम् । पथ्यम् । श्रर्थ्यम् । न्याय्यम् । १६४५ छन्दसो निर्मिते । ( ४-४-६३ ) सप्तानां प्रकृतीनाम् एकैकस्या अष्टस्वप्यर्थेषु प्रत्यय इति भ्रमः स्यात् । तार्यमिति । तरीतुं शक्यमित्यर्थः । 'ऋहलोर्यत्' । वयसा तुल्य इति । मित्रे एवायं प्रत्ययो नतु शत्रौ, संज्ञाधिकारात् । मूलेनानाम्यमिति । पटादेरुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यं मूलम् । तेन सह यदधिकं द्रव्यम् श्रनम्यते विक्रेतुः संमती - करणेन लभ्यते तन्मूल्यमित्यर्थः । लोकास्तु विक्रेतुर्लब्धं सर्वं द्रव्यं मूल्यमिति व्यवहरन्ति । तत्र लक्षणा बोध्या । सा च सांप्रतिकी निरूढा वा । सीतयेति । सीता लाङ्गलपद्धतिः । तया समितं संगतमित्यर्थः । कृष्टमिति यावत् । तुलयेति । तुला वटा, तया उन्मितमित्यर्थः । धर्मपथ्यर्थ । धर्म, पथिन्, अर्थ, न्याय एभ्यः अनपेतमित्यर्थे यदित्यर्थः । श्रौचित्यात्पञ्चम्यन्तेभ्य इति लभ्यते । धर्मादनपेतद्वितीयमूलादिद्वन्द्वेन सह् समाहारद्वन्द्वः । मूलान्तानां द्वित्राणां वा मूलादीनामेव वा द्वन्द्वं कृत्वा नावादिषु द्वन्द्वः । तेन सारूप्याभावादेकशेषो न भवति । नावा तार्यमिति । शक्यार्थे 'ऋहलोर्यत्' करणे तृतीया । वयस्य इति । 'स्निग्धो वयस्यः सवयाः' इत्यमरः । ‘वयसा तुल्यः शत्रुः' इत्यत्र तु न भवति, संज्ञाधिकारात् । विषेण वध्य इति । विषेण वधमर्हतीत्यर्थः । ' दण्डादिभ्यः -' इति सूत्रेण वधशब्दादर्हार्थे यद्विधानात् । मूलेनानाम्यमिति । मूलं नाम पटादीनामुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यम् । तेन स्वस्मादतिरिक्तं लाभाख्यं यद् द्रव्यमात्मानं प्रति शेषीक्रियते आत्मन उपकारकं क्रियते तद् श्रानाम्यम् । श्राङ्पूर्वको नमिरभिभवे वर्तते, तस्मात् 'पोरदुपधात्' इति यति प्राप्त अतएव निपातनाण्ण्यत्, तथा चानाम्यमभिभवनीयम् श्रात्मानं प्रति शेषीकर्तव्यम् । स च लाभाख्यो भाग एव । लोके तु यावता द्रव्येण पटादिकं विक्रीयते तत्रैव समुदाये मूल्यशब्दः प्रसिद्धः, न तु मूलातिरिक्तभागमात्रे व्युत्पादितः । एवं च लाभमात्रे व्युत्पादितस्य मूल्यशब्दस्य तद्घटिते सङ्घाते निरूढलक्षणा बोध्या । सीतेति । सीता हलाग्रम् । सम्पूर्वादिणः क्तः, समितं संगतं निम्नोन्नतादिरहितं कृतमित्यर्थः, समीकृतमिति यावत् । ' रथसीताहलेभ्यो यद्विधौ' इति तदन्तविधिः । परमसीत्यम् । द्वाभ्यां सीताभ्यां समितमिति तद्धितार्थे समासस्ततो यत् । द्विसीत्यम् । तुलया संमितमिति । सम्मितं परिच्छिन्नम् । रूढिशब्दोऽयम्, 'संज्ञायाम्' इत्यधिकारात् । अतएव 'तुल्यम्' इति सदृशमात्रे प्रयुज्यते, न तु