________________
४७६ ]
सिद्धान्तकौमुदी । [तद्धितेषु प्राग्घितीय
छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः । १६४६ उरसोऽण् च । ( ४-४-६४ ) चाद्यत् । उरसा निर्मितः पुत्र औरसः, उरस्यः । १६४७ हृदयस्य प्रियः । ( ४-४-६५ ) हृयो देश: । 'हृदयस्य हृल्लेख-' ( सू 8८८) इति हृदादेशः । १६४८ बन्धने चर्षो । ( ४-४-६६ ) हृदयशब्दात्षष्ठयन्ता - द्वन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धन हृद्यो वशीकरण मन्त्रः । १६४६ मतजनहलात्करणजल्पकर्षेषु । (४-४-६७) मतं ज्ञानम्, तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्षो हल्यः । १६५० तत्र मिति । प्रच्युतमित्यर्थः । पथ्यमिति । पथः अनपेतमित्यर्थः । न्याय्यमिति । न्यायादनपेतमित्यर्थः । छन्दसो निर्मिते । छन्दश्शब्दात्तृतीयान्ताद् निर्मितेऽर्थे यदित्यर्थः । इच्छ्येति । छन्दःशब्द इच्छावाचीति भावः । 'छन्दः पद्येऽभिलाषे च' इत्यमरः । उरसोऽण् च । तृतीयान्तान्निर्मित इत्यर्थ इति शेषः । उरस्य इति । 'अङ्गादङ्गात्संभवसि हृदयादधिजायसे' इति श्रुतेरिति भावः । पुत्र इति संज्ञाधिकाराल्लब्धम् । हृदयस्य प्रियः । षष्ठ्यन्ताद् हृदयशब्दात् प्रिय इत्यर्थे यत्स्यादित्यर्थः । बन्धने चर्षो । मतजनहलात् । यथासंख्यम् एभ्यः वर्थेषु यदिति शेषः । मतं ज्ञानमिति । मनधातोः भावे क्त इति भावः । करणं भावः साधनं वेति । कृञ्धातोर्भावे करणे वा ल्युटि करणशब्दः । तेन जननक्रिया वा जननसाधनं वा विवक्षितमित्यर्थः । मत्यमिति । ज्ञानस्य जननक्रिया तुलायामाग्रहः क्रियते । पथ्यमिति । संज्ञाधिकारादभिधेयनियमः, तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यम् । न तु मार्गादनपेतश्चोरोऽपि । छन्दसो । 'हृदि संवरणे' इति चुरादिरिच्छायामपि वर्तते, धातूनामनेकार्थत्वात् । ततो घञि इच्छा पर्यायश्छन्दःशब्दः प्रसिद्ध एव 'स्वच्छन्दोच्छलदच्छकच्छ-' इत्यादौ । असुनि तु यः सान्तः सोऽत्र प्रकृतिस्तत्र निर्माणे इच्छायाः करणत्वात्सामर्थ्यात्तृतीयान्तात्प्रत्ययः । इच्छया कृतमिति । यद्यपि वेदे त्रिष्टुबादिषु च सान्तश्छन्दःशब्दोऽस्ति, तथापीह न गृह्यते संज्ञाधिकारात् किं त्विच्छ पर्याय एव स गृह्यत इति भावः । पुत्र इति । संज्ञाधिकारान्ने । उरसा निर्मितं सुखम् । हृदयस्य । प्रीणातीति प्रियः, 'इगुपध-' इति कः । कृद्योगात्कर्मणि षष्ठी, अलौकिके तद्धितप्रकृतिभागे तु वचनसामर्थ्यादेव । एवमन्यत्रापि बोध्यम् । बन्धने । बध्यतेऽनेनेति बन्धनः । करणे ल्युट् । वशीकरणमन्त्र इति । तेन हि परहृदयं वशीक्रियते । संज्ञाधिकाराद्वसिष्टादावृषौ नायं यत् । मत । तस्य करणांमति । कर्मणि षष्ठी । कृतिः करणम्, क्रियतेऽनेनेति वा करणमित्याशयेनाह - भावः साधनं वेति । जल्पशब्दो भावसाधनः । कर्तरि
,