________________
४५८ ]
सिद्धान्तकौमुदी । [तद्धितेषु प्राग्वहतीय
स्यानित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पक्त्रिमम् । 'भावप्रत्ययान्तादिमब्वक्तव्यः' ( वा २५१ ) पाकेन निर्वृत्तं पाकिमम् । स्यागिमम् । १५७१ अपमित्ययाचिताभ्यां कक्कनौ । ( ४-४-२१ ) अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तमापमित्यकम् । याचितेन निर्वृत्तं याचितकम् । १५७२ संसृष्टे । ( ४-४-२२ ) दक्षा संसृष्टं दाधिकम् । १५७३ चूर्णादिनिः । ( ४-४-२३) चूर्णैः संसृष्टात्यर्थः । ' समर्थानां प्रथमाद्वा' इति महाविकल्पनिवृत्त्यर्थं नित्यम् हणम् । ततश्च अस्मिन्नर्थे मप्प्रत्ययं विना वित्रप्रत्ययान्तस्य प्रयोगो नेति भाष्ये स्पष्टम् । एवं चात्र अस्वपदविप्रहं दर्शयति- कृत्या निर्वृत्तमिति । अत्र विग्रहवाक्ये 'स्त्रियां क्लिन्' इति क्विन्नन्तोऽयं कृतिशब्दः । कृत्रिममिति । 'डुकृन् करणे' इति धातोः 'ड्वितः क्त्रिः' इति वित्रप्रत्ययान्तान्मप् । पक्त्रिममिति । पक्त्या निर्वृत्तमित्यस्वपदविग्रहः । 'डुपचष् पाके' इत्यस्मात् क्त्रिप्रत्ययान्तान्मं । इमब्वक्लव्य इति । निर्वृत्तमित्यर्थे तृतीयान्तादिति शेषः । अत्र नित्यमिति न संबध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति- पाकेन निर्वृत्तमिति । अपमित्ययाचिताभ्याम् । ल्यबन्तमिति । 'मेङ् प्रणिदाने' इत्यस्माद् विनिमयार्थकाइ ‘उदीचां माङो व्यतिहारे' इति क्त्वाप्रत्यये गतिसमासे ल्यपि 'मयतेरिदन्यतरभ्याम्' इति इत्त्वे 'ह्रस्वस्य पिति-' इति तुगागमे श्रपमित्येत्यव्ययम्, ' क्त्वातोसुन्कसुनः' इत्युक्तेरित्यर्थः । निर्वृत्तमित्यर्थे श्रपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात कक् कन् च यथासंख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वासंभवात प्रथमान्तादिति लभ्यते। संसृष्टे । संसृष्टमित्यर्थे तृतीयान्तात् ठग् इत्यर्थः । चूर्णादिनिः ।
श्रतएव लौकिके विग्रहवाक्ये क्लिन्नादीनां प्रयोगः, न तु क्त्रेः, तदाह — कृत्या निर्वृत्तमिति । एवमग्रेऽपि पाकेन निर्वृत्तमिति विग्रहो बोध्यः । संख्यावाची त्रिशब्दो नेह गृह्यते, प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणात्, 'गिजां त्रयाणाम् -' इति लिङ्गाच्च । ननु नित्यग्रहणेन निर्वृत्तार्थविवक्षायां मपं विना त्रिप्रत्ययान्तस्य प्रयोगनिवारणेऽपि तदविवक्षायां तस्य स्वातन्त्र्येण प्रयोगो दुर्वार इते चेत्, न । नित्यमिति योगं विभज्य तत्सामर्थ्यादर्थविशेषानादरेणैव स्वातन्त्र्य वारणात् । इमबिति । एवं च मप् न कर्तव्यः । तथा हि 'भावप्रत्ययान्तादिम'र्' । ततः ‘त्रैः’। पूर्वेण सिद्धे नियमार्थमिदं त्रिप्रत्ययान्त इमब्विषय एवेति । तेन विप्रत्ययान्तप्रयोगो निवर्तते । ततो 'नित्यम्' अनेन निर्वृत्तार्थाविवक्षायामपि त्र्यन्तस्य स्वातन्त्र्यं वार्यते । एवं च संख्यावाचित्रिशब्दस्य ग्रहणशङ्केव नास्ति, भावप्रत्ययान्तादित्यनुवृत्तेः । स्वरेऽपि विशेषो नास्ति, उदात्तनिवृत्तिस्वरेण इमप इकारस्योदात्तत्वात् । श्रपभित्येति ।