________________
प्रकरणम् ३० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५६ अचूर्णिनोऽपूपाः । १५७४ लवणाल्लुक् । (४-४-२४) लवणेन संसृष्टो लवणः सूपः । नवणं शाकम् । १५७५ मुद्रादण् । (४-४-२५) मौद् मोदनः । १५७६ व्यअनैरुपसिक्ने । (४-४-२६) ठक् । दना उपसिकं दाधिकम् । १५७७ ओजःसहोऽम्भसा वर्तते। (४-४-२७) प्रोजसा वर्तत औजसिकः शूरः । साहसिकश्चौरः । प्राम्भसिको मत्स्यः । १५७८ तत्प्रत्यनुपूर्वमीपलोमकूलम् । (४-४-२८) द्वितीयान्तादमाद्वर्तत इत्यस्मिन्नर्थे ठक्स्यात् । क्रियाविशेषणत्वाद् द्वितीया।प्रतीपं वर्तते प्रातीपिकः । भान्वीपिकः। संसृष्टमित्यर्थे तृतीयान्तादिति शेषः। लवणाल्लुक् । पूर्वसूत्रविहितस्येति शेषः । मुद्गादण । तेन संसृष्टामत्यर्थे तृतीयान्तादिति शेषः । मौद्ग प्रोदन इति । मुद्गः संसृष्ट इत्यर्थः । व्यञ्जनैरुपसिक्ने । उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यः ठगित्यर्थः । सेचनेन मृदूकरणमुपसेकः। संसृष्ट इत्येव सिद्धे नियमार्थ सूत्रम्-व्यञ्जनवाचिभ्य उपसिक्त एवेति । तेनेह न-सूपेन संसृष्टा स्थाली । ओजःसहो । वर्तते व्याप्रियते इत्यर्थे ओजस् , सहस् , अम्भस् एभ्यः तृतीयान्तेभ्यः ठक् स्यादित्यर्थः । औजसिक इति । ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः । साहसिक इति । सहसा प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः । प्राम्भसिक इति । अभ्भसा हेतुना संचारे व्याप्रियत इत्यर्थः। तत्प्रत्यनुपूर्व । तदिति द्वितीयान्तानुकरणम् । प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्य ईपलोमकूलशब्देभ्यो वर्तते इत्यर्थे ठक् स्यादित्यर्थः । ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात् कथं द्वितीयेत्यत आह -क्रियाविशेषणत्वादिति । इदं च कारकनिरूपणे निरूपितम्। 'क्रियाविशेषणानां प्रथमान्तत्वमेव' इति तु शब्देन्दुशेखरे। प्रतीपमिति । प्रतिगता आपो यस्मिन्निति बहुव्रीहिः । 'ऋक्पू:-' इत्यकारः समासान्तः । 'धन्तरुपसर्गभ्योऽप इत्' इति इत्त्वम् । अनुगता 'उदीचां माङ:-' इति क्त्वाप्रत्यये अपेत्यनेन सह गतिसमासः, क्त्वो ल्यप् । 'मयतेरिदन्यतरस्याम्' इति इत्वम् , 'हखस्य-' इति तुक् । ल्यबन्तादस्मात्तृतीयान्तात्प्रत्ययो न भवति, किं तु वचनात्प्रथमान्तादेवेति बोध्यम् । व्यञ्जनैरुप । व्यज्यते अनेन ओदनादिरस इति व्यञ्जनं तद्वाचिभ्य उपसिक्त इत्यर्थे ठक् स्यात् । तत्प्रत्यनु । वृत्तेरकर्मकत्वात्कथं तस्य द्वितीयान्तेन प्रतीपमित्यादिना सम्बन्ध इत्याशङ्कायामाहक्रियाविशेषणत्वादिति । प्रतीपमिति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः । 'ऋक्पू:-' इत्यकारः समासान्तः । 'यन्तरुपसर्गेभ्यः' इति ईत्वम् । व्युत्पत्तिमात्रमिदम् । प्रतिकूलानुकूलपर्याया हीमे रूढिशब्दाः । आन्वीपिक इति । अन्वीप