________________
प्रकरणम् ३०] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५७ क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम् । क्रयविक्रयिकः, ऋयिकः, विक्रयिकः । १५६४ आयुधाच्छ च । (४-४-१४) चाहन् । प्रायुधेन जीवति प्रायुधीयः, श्रायुधिकः । १५६५ हरत्युत्सङ्गादिभ्यः । (४-४-१५) उत्सङ्गेन हरत्यौत्सङ्गिकः । १५६६ भस्त्रादिभ्यः ष्ठन् । (४-४-१६) भस्त्रया हरति भस्त्रिकः । षित्त्वाद् भस्त्रिकी । १५६७ विभाषा विवधात् । (४-४-१७) विवधेन हरति विवधिकः । पले ठक् । वैवधिकः। एकदेशविकृतस्यानन्यवाद्वीवधादपि छन् । वीवधिकः, वीवधिकी। विवधवीवधशब्दो उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते । १५६८ अण कुटिलिकायाः । (४-४-१८) कुटिलिका व्याधानां गतिविशेषः, कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानगारान्वा कौटिलिको व्याधः कर्मारश्च । १५७९ निर्वृत्तेऽक्षयूतादिभ्यः । (४-४-१६) अक्षयूतेन निवृत्तमाक्षयूतिकं वैरम् । १५७० त्रेमम्नित्यम् । (४-४-२०) त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तानिवृत्तेऽर्थे र्थमिति । व्याख्यानादिति भावः । आयुधाच्छ च । जीवतीत्यर्थे तृतीयान्ताद् प्रायुधशब्दात् छः स्यात् ठन् चेत्यर्थः । हरत्युत्सङ्गादिभ्यः । हरतीत्यर्थे तृतीयान्तेभ्यः उत्सङ्गादिभ्य ठक् स्यादित्यर्थः । भस्त्रादिभ्यः ष्ठन् । टनिति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो भत्रादिभ्यः छन् स्यादित्यर्थः। षित्त्वादिति । ङीष् इति शेषः। विभाषा विवधात् । हरतीत्यर्थे तृतीयान्तात् ठनिति शेषः । अ कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात् कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः तस्य यद् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयम् , तदपि कुटिलिकेत्यर्थः । निर्वृत्तेऽक्षतादिभ्यः । निर्वृत्तमित्यर्थे तृतीयान्तेभ्योऽक्षयूतादिभ्यः ठगित्यर्थः । त्रेमस्नित्यम् । तेन निवृत्तमित्यर्थे 'ड्वितः त्रिः' इति त्रिप्रत्ययान्तान्नित्यं मप्प्रत्ययः स्यादितार्थम् । तथा च धानुर्दण्डिकः, दाण्डिक इत्यप्युदाहार्यम् । आयुधाच्छ च । श्रायुध्यन्ते अनेनेति श्रायुधम् , 'घर्थे कविधानम्' इति कः। हरत्युत्सङ्गादिभ्यः। एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे । उत्सङ्ग, उडुप, उत्थित, पिटक, पिटाक । भस्त्रादिभ्यः ष्ठन् । भस्वा चर्मविकारः । शीर्षेभारशब्दोऽत्र पठ्यते निवातनाच्छीर्षभावः सप्तमीसमासश्च, 'तत्पुरुषे कृति-' इति वा अलुक् । पक्ष शीर्षमारः । एकदेविकृतस्येति । 'वीवधाचेति वक्तव्यम्' इति वार्तिकं न्यायसिद्धार्थकथनपरमिति भावः । वृत्तिकृत्तु सूत्रे वीवधशब्दं प्रक्षिप्य 'विभाषा विवधवीवधात्' इति पपाठ । ।मनित्यम् । नित्यग्रहणं खातन्त्र्येण प्रयोगं वारयितुम् ।