SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४५६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीय'इकारादाविति वाच्यम्' (वा ४५१२) । श्वगंणेन चरति श्वार णिकः, श्वागणिकी श्वगणिकः, श्वगणिकी । १५६१ पदान्तस्यान्यतरस्याम् । (७-३-६) श्वादेरङ्गस्य पदशब्दान्तस्यैज् वा । श्वापदस्येदं श्वापदम् , शौवापदम् । १५६२ वेतनादिभ्यो जीवति । (४-४-१२) वेतनेन जीवति वैतनिकः । धानुष्कः । १५६३ वस्नक्रयविक्रयाट्टन् । (४-४-१३) वस्रेन मूल्येन जीवति वास्त्रिकः । नैजागम इत्यर्थः । श्वाभस्त्रिरिति । अत इञ् । श्वादष्ट्रिरिति । श्वदंष्ट्र स्यापत्यमित्यर्थः । ननु श्वन्शब्द एव द्वारादौ पठ्यते नतु श्वभत्रशब्दः । ततश्च तस्य द्वारादित्वाभावादजागमप्रसक्तिरेव नेत्यत आह--तदादिविध विति । द्वारादिगणे श्वन्शब्दस्य पाठेऽपि अस्मादेव प्रतिषेधात् श्वन्शब्दपूरकस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः । तत्फलं तु श्ववहनस्येदं शौवा नं नाम नगरम् । ननु प्रकृते श्वागणिके इअभावात्कथमयं निषेध इत्यत आह-इका रादाविति वाच्यमिति । इनीति परित्यज्य इकारादाविति वाच्यमित्यर्थः । इ जे तु व्यपदेशिवत्वेन इकारादित्वम् । श्वागणिक इति । ठञि आदिवृद्धिः। श्वागणिकीति । ठमन्तात् 'टिड्ढाणद्वयसज्दघ्नमात्रच्तयप्ठकठकञ्चरपः' इति डीप । श्वगणिक इति । ठनि रूपम् । श्वगणिकीति । षित्त्वाद् ङीष् । प्रसङ्गादाह-- पदान्तस्यान्यतरस्याम् । 'श्वादेरिबि' इत्यस्मादुत्तरं सूत्रमिदम् । पदं पद. शब्दः अन्तो यस्येति विग्रहः । तदाह-पदशब्दान्तस्यति । ऐज्वेति । निषेधविकल्प सति विधिविकल्पः फलित इति भावः । श्वापदस्येति । शुनः पदमिव पदं यस्येति विग्रहः । 'शुनो दन्तदंष्ट्रा-' इत्यादिना दीघः । शौवापदमिति । 'तस्येदम्' इत्यण् । 'वृद्धाच्छः' इति तु न, अनभिधानादित्याहुः । अन्ये तु श्वपुच्छबद्दीर्घाभावे अणमाहुः। वेतनादिभ्यो जीवति । जीवतीत्यर्थे रतीयान्तेभ्यः ठगिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुक इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षत्वम् । वस्नक्रयविक्रयाट्ठन् । जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यः ठन् स्यादित्यर्थः । संघातविगृहीतामिति । द्वारादिगणे श्वन्शब्दः पठ्यते, न तु श्वभस्त्रः श्वदष्ट्रत्यादि तथा च 'श्वादेरित्रि' इति निषेधसूत्रमेव व्यर्थ सद् द्वारादिषु तदादिविधि ज्ञापयतीत्यर्थः । फलं तु द्वारपालस्यायं दौवारपाल इत्यादावैजागमस्य प्रवृत्तिः । इकारादाविति । सूत्रे इत्रीत्यपनीय इकारादाविति पठनीयमित्यर्थः । अन्ये तु इसीति स्थाने इतीति पठनीयम् । तथा चाङ्गाक्षिप्तप्रत्ययस्य विशेष्यत्वाद् 'यस्मिन्विधिस्तदादौ-' इत्यनेन इकारादिर्लभ्यत इत्याह-श्वगणिकीति । टनः षित्त्वान्ङीष् । श्वापदस्येति । 'अन्येषामपि दृश्यते' इति दीर्घः । धानुष्क इति । वेतनादिगणे धनुर्दण्डेति पठ्यते, तच्च सङ्घातविगृही
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy